SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ - + - एतानि स्वयंसञ्चालितानि यन्त्राणि सर्वमपि मनुष्यवत् कर्तुं समर्थानि, कार्यमेकं मुक्त्वा ! किं तत् ? कुत्रचिद् यदि स्खलनं जायेत तदा तानि तद् निह्नोतुं प्रयत्नं नैव कुर्वन्ति ! - + भवान् हि स्वप्रतिवेशिनो विषये शुभं वदति, किन्तु स भवतोऽशुभमेव वदति ननु ! आवां द्वावपि सर्वथाऽसत्यं वदावः !! - + भोः ! भवान् यं श्वानं वने विहातुं गतः स तु भवदागमनात् पूर्वमेव गृहं समागतोऽस्ति । सत्यम् । किन्तु तस्याऽऽगमनं मम कृते सुखकरं सञ्जातं, यतोऽहं तस्य पृष्ठत एव गृहं प्रत्यागन्तुं शक्तो जातः !! नेता (प्रवचने) अद्यतने युगे प्रामाणिकतां नीतिं च विना न किमपि हितकरमस्ति । अस्माभिस्तावत्कालं प्रामाणिकैर्भवितव्यं यावत्... श्रोता (मध्ये एव) अस्माकमप्रामाणिकतामाचरितुमवसरो न प्राप्येत !! - + भवते मतदानादपि कस्मैचिद् गर्दभाय मतदानं मह्यमधिकं रोचेत । किन्तु भवतः प्रियः सुहृत् सोऽस्मिन् निर्वाचने नैव भागं गृहीतवान् !! सुहृत्-१ भोः ! भ्रातृजायायाः कासः सर्वथा निर्मूलोऽभवत् खलु ! कस्य चिकित्सकस्यौषधं गृहीतं तया ? सुहृत्-२ न कस्याऽपि चिकित्सकस्यौषधं गृहीतम् । केवलमहं तस्यै एवमुक्तवान् यत् - कासो वार्धक्यस्य चिह्नमस्तीति । ततः स्वयमेव कासो निर्मूलोऽभवत् !!
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy