________________
समुद्रः यादांसि रक्षसि समुद्र ! बहूनि कुक्षौ घोराणि यानि जनयन्ति भयं प्रभूतम् । त्वद्वीचयः प्लवगणान् विनिमज्जयन्ति त्वद्वार्यसह्यलवणं त्वमतोऽसि निन्द्यः ॥७५॥ रत्नानि सन्ति विपुलानि तवोदरेऽब्धे ! प्रीत्या ददासि बहु मेघगणाय वारि । लक्ष्मीः सुता तव हरिं वृणुते स्म नाथं त्वत्तोऽधिको जगति न प्रतिभाति कश्चित् ॥७६।।
मेघः हे मेघ ! गर्जसि वृथा सलिलं न दत्से सौदामिनी सपदि दर्शयसे च भान्तीम् । लोको विशुष्कवदनस्तु निरीक्षतेऽपः त्वं निर्गुणोऽसि सकलान् कुरुषे निराशान् ॥७७।। वारि प्रवर्षसि सरित्सरसीतटाकाः पूर्णा भवन्तु जगदस्तु सुखीति मेघ ! । नाऽपेक्षसे कमपि तेभ्य इहोपकारं निष्कामकर्मनिरतस्त्वमसि प्रशस्यः ॥७८।।
रसाल: मूर्खा रसाल ! जगति त्वमतुल्यरूप: कस्माद् बिर्षि मधुराणि फलानि भूयः । भग्नास्त्वदीयविटपा: कपिभिर्मनुष्यैः पाषाणवृष्टिररचि त्वदुपर्यजस्रम् ॥७९॥ धन्यो रसाल ! जगतामुपकारकस्त्वं रस्यं त्वदीयफलमस्ति न कस्य रम्यम् ? । छायां ददासि नरधेनुमृगव्रजेभ्यस्त्वामाश्रयन्ति विहगाः शतशश्च भृङ्गाः ॥८०॥
३०