________________
शैलः
शैलोऽस्ति हिंसपशुयूथगृहं समन्ताद् भीतिः समस्तमिह संवृणुते सदाऽपि । चोरा गुहासु निवसन्त्युरगाश्च घोरा नाऽऽराधनोचितगुणोऽस्ति गिरौ तु कश्चित् ॥६९॥ शैल ! त्वमेव भुवि धन्यतमो विभासि त्वामाश्रयन्ति सरितः परितश्च वृक्षाः । ऋक्षा गजाश्च विहगा उरगा मृगाश्च त्वां वर्णयामि कतिभिर्वचनैर्न जाने ॥७०॥ नगरम्
दुःखाविलेऽत्र नगरे किमिव प्रशस्तं मालिन्यमस्ति पवने सलिले स्थले च । कर्णौ भिनत्ति सुतरां शकटादिशब्दश्चोराः किरातसदृशाः प्रगुणीभवन्ति ॥ ७१ ॥ रम्यं विभाति नगरं विपुलप्रकाशं देवालयैर्विपणिभिर्भवनैश्च भव्यम् । सङ्गीतनृत्यनवनाटककान्तिकान्तं योगप्रयोगनिपुणैर्भरितं नितान्तम् ॥७२॥
नक्षत्राणि
भान्त्येव खे विविधभानि फलं न किञ्चित् द्योतं न धर्ममपि वा जनयन्ति तानि । तान्यर्चयन्ति शुभलाभमवाप्तुकामा मूर्खास्ततः किमिव हास्यतरं धरायाम् ॥७३॥
खं भूषयन्ति नयनोत्सवमाचरन्ते चित्राणि भानि विविधाकृतिदर्शकानि । चन्द्रेण शून्यमभितः किल रात्रिकालं कुर्वन्ति सह्यमुपपाद्य मनाक् प्रकाशम् ॥७४||
२९