________________
सूर्यः त्वं बाधसे जनगणान् नितरां निदाघे संशोषयस्यपि तरून् कुरुषे मरूंश्च । लीनो भवस्यतितमां जलदेषु भास्वन् ! वर्षासु कोऽस्ति भवतो जगतोऽस्य लाभः ? ॥६३|| भानो ! विभासि नभसि प्रभया दिवा त्वं । दत्त्से प्रकाशमपि वृष्टिमिहाऽऽतनोषि । शैत्यं जनस्य जडतां च हरस्यजस्रं त्वां नौमि सर्वजगतां नयनं महात्मन् ! ॥६४॥
नारिकेलः हे नारिकेल ! गगने फलवल्लरी ते को वाऽत्र तानि लभते मनुजः फलानि । आकाशतः किल पतन्ति कदाऽपि शीर्षे प्राणान् हरन्ति पुरुषस्य ततो हि धिक् त्वाम् ॥६५॥ राजाऽसि वृक्षनिवहस्य समुन्नतोऽसि त्वं नारिकेल ! मधुरं सुजलं च दत्से । सारं फलस्य तव पुष्टिकरं नराणां तस्मात् त्वमेव भुवि कल्पतरुनमस्ते ॥६६।।
भूमिः भूमौ किमस्ति ? मनुजाः कलहे प्रसक्ताः क्रौर्यं च युद्धमथवैरमथ प्रणाशः ।। मैत्रीति हार्दमिति भूतदयेति मिथ्यावादस्ततो न वसुधा भवति प्रशस्ता ॥६७।। ये ज्ञानिनश्च गुरवश्च कलाविदश्च शान्तिप्रियाः परहितप्रवणा महान्तः । ते सन्ति भूमिवलये तपसा समस्तान् उद्धर्तुमिच्छव इति पृथिवी प्रशस्ता ॥६८॥
२८