________________
बिडालः त्वामन्नदुग्धनवनीतदधीनि दत्त्वा प्रीत्या बिडाल ! शिशुवत्परिपालयन्ति । केचिज्जनास्तव कृते जहति स्ववित्तं कार्तश्यमस्ति किमु ते हृदि लेशतोऽपि ? ॥५७।। दत्त्वा कदाचन कदन्नलवं भवन्तं यः पोषयेत् करुणया भवने स्वकीये । तस्योपकारमतुलं कुरुषे बिडाल ! त्वं मूषिकान् लघु निहत्य गुणी कृतज्ञः ॥५८॥
धनम् वित्तं गृहस्थितमपारभयस्य बीजं बान्धव्यनाशकमदत्तमपायकाले । शत्रुत्वकारणमपत्यगणस्य भूयः को वाऽभिनन्दति धनं तदिहाऽत्र विद्वान् ॥५९।। मूलं समस्तविदुषां पुरुषार्थसिद्धेः बीजं विशालसुखसम्पदपारवृद्धः । हेतुर्वलक्षयशसां नितरां समृद्धः वित्तं न केन विबुधेन समर्च्यतेऽत्र ? ॥६०॥
चन्द्रः चन्द्र ! त्वदीयरमणीयगुणान् कलङ्कः सञ्छादचत्यतितरां त्यज तं त्वमाशु । सोऽयं ममाऽस्ति सहजः प्रिय इत्युदास्से चेत्त्वां न कश्चिदिह पूजयतीति विद्धि ॥६१।। चन्द्रः सुधामयमयूखगणैर्मनुष्यान् सम्प्रीणयत्यनुदिनं न तु याचते तान् । किञ्चित् कुरुध्वमिह मे क्षयपक्षदुःखे साहाय्यमित्यत उपास्यपदोऽयमेव ॥६२।।
२७