SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मत्स्यः अल्पं बृहन् गिलति तं च बृहत्तरस्तं मत्स्यं बृहत्तमतनुः कवलीकरोति । न्यायं तमेनमनुसृत्य कुलस्य नाशे नित्यं रता अनिमिषाः खलु निन्दनीयाः ॥५१॥ मीना अमी नयनतर्पणवर्णभूषाः केषां न विस्मयभरं जनयन्त्यपारम् ? | नारायणोऽप्यवततार तदीयरूपे वेदान् रिरक्षिषुरिति स्तुजिभाज एते ॥५२॥ कूर्मः हे कूर्म ! मन्थरगते वद मन्दबुद्धे ! दीर्घ सिषाधयसि किं तव जीवनेऽस्मिन् । . दृष्ट्वा शशांश्च विहगान् उरगान् सवेगान् किं लज्जसे न ! भव वेगयुतः कथञ्चित् ॥५३॥ कूर्म ! त्वमेव सुकृती निखिले प्रपञ्चे चिन्तां विना क्षपयसि क्षणदां दिनं च । नास्ति त्वरा तव न वा भयकल्पनाऽपि त्वं विष्णुरूप इति ते स्तुतिरेव साध्वी ॥५४॥ वराहः रे रे वराह ! किमरण्यवसुन्धरायां नास्त्येव मूलफलकन्दसमृद्धिरत्र ? क्षेत्रेषु किं भ्रमसि भूरि भयानकेषु राजश्रितेषु परितर्पयितुं रसज्ञाम् ॥५५।। भूम्ना हिरण्यनयनं विनिपातयन्तं वेदोक्तयज्ञयज्ञमुखधर्ममवन्तमीड्यम् । आद्यं वराहमवनि द्रुतमुद्धरन्तं भक्त्या भजामि भवभीतिविभञ्जनेप्सुः ॥५६॥ २६
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy