SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वैद्याः वैद्यान् महीतलयमान् सभयोऽत्र वन्दे छिन्दन्ति ये वपुरपारधनं गृहीत्वा । ये यातनामधिकयन्त्यगदैविरुद्धै रुग्णस्य वित्तमपहर्तुमसत्यवाचः ॥८१।। वैद्यं नमामि जगतीतलविष्णुमाद्यं रक्षन्तमामयगणात् सकलं प्रपञ्चम् । राजा कविश्च विबुधो निखिलागमज्ञः पादौ समाश्रयति यस्य रुजाभिभूतः ॥८२।। ज्योतिषिकाः मिथ्याग्रहान् अनृतशास्त्रगतान् विचारान् भीति जने जनयितुं सततं गदन्तः । लुण्टन्ति ये जगति मुग्धधियां धनं तान् कार्तान्तिकान् क इह शंसति शास्त्रशत्रून् ॥८३।। कार्तान्तिकान् सकललोकविचारदक्षान् नक्षत्रयोगकरणोपनिषन्नदीष्णान् । सूक्ष्मेक्षिकाविदितसर्वशुभाशुभार्थान् लोकोपकारनिरतान् प्रणमामि भक्त्या ॥८४।। गुरुः मूढः स्वयं नृपतिदत्तकरावलम्बो लब्ध्वा गुरोः पदमनुत्तममिद्धगर्वः । नित्यं प्रतारयति शिष्यगणान् वितन्वंश्चेष्टां मुनीन्द्रवदयं गुरुवेषधारी ॥८५॥ पूज्यो गुरुः सकलशास्त्ररहस्यवेदी छात्रे सदा सकरुणः परमार्थदर्शी । यस्यैव चाऽत्र कृपया प्रभवन्ति शिष्यास्तुल्या गुरोर्गुणगणैश्च सुविद्यया च ॥८६।। ३१
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy