________________
आस्वादः
मित्रस्य आवश्यकता
- उपा. विश्रुतयशविजयः
विना मित्रं जना अनाथा यथा पितरौ विना बालः । जीवनं सङ्ग्रामवद् वर्तते । विना मित्रेण संसारसङ्ग्रामे योद्धुमशक्यम् । यथा अपक्वे घटे जलं न भ्रियते । कदाचित् यदि जलं भ्रियेत तदा जलेन साकं घटोऽपि नष्टो भवति । यथा जलं भर्तुं पक्वो घटो योग्यस्तथैव संसारसङ्ग्रामे जयं प्राप्तुं समीचीनं मित्रं सदैव शोधनीयम् ।
चतुःप्रकाराणि मित्राणि सन्ति । [१] काकवत् [२] उपानद्वत् [३] वृक्षवत् [४] खड्गफलकवत् ।
प्रथमं काकसदृशमित्रं कीदृशं तत् सावधानमनसा शृणुध्वम् - काको यथा कचवरं सदा मार्गयति व्रणं वा शोधयति तथैव काकसदृशमित्रमपि भवतः स्खलनां मार्गयति । स्खलनायाश्छिद्रस्य च निरीक्षणे हि काकमित्रस्य मतिः सदा रमते । छिद्रं दृष्ट्वाऽस्थाने प्रतिपक्षपार्श्वे च छिद्रं प्रकाश्य मित्रक्लेशमुत्पाद्य स नन्दति ।
चाणक्योऽपि एतादृशं मित्रलक्षणमुक्तवान्
परोक्षे कार्यहन्तारं, प्रत्यक्षे प्रियवादिनम् ।
वर्जयेद् तादृशं मित्रं, विषकुम्भं पयोमुखम् ॥
समीचीनस्य मित्रस्याऽभावे कदाचिदपि एतादृशं काकमित्रं न कर्तव्यम् ।
द्वितीयं उपानत्तुल्यं मित्रम् ।
वर्षर्तौ कोऽपि जन उपानहौ धृत्वा चलति । तदा लोष्टादिभिस्तु तस्य संरक्षणं भवति । किन्तु पृष्ठभागे कर्दम उच्छलति, वस्त्रं मलिनं करोति । तच्चोपानद्धारकेन न ज्ञायते, यत् पृष्ठभागे मम वस्त्रं मलिनं भवति । तथैव द्वितीयं मित्रं वर्तते । अग्रे तु मधुराणि वचनानि उक्त्वा मित्रमानन्दयति । पृष्ठे च तस्यैव निन्दां करोति । अत एतादृशं मित्रं न विश्वासपात्रम् ।
६४