SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तृतीयं वृक्षसममित्रम् । इदं मित्रं स्वस्वार्थं पूर्णीकर्तुं तिष्ठति स्वार्थपूर्त्यन्तरं च मित्रस्य सहायं विस्मरति । वर्षत जलधारासमये पथिको जलधारया स्वशरीरस्य रक्षणहेतोर्वृक्षस्याऽधस्तिष्ठति, तदा स्वल्पकालं पथिक आर्द्रा न भवति । किन्तु कियच्चित् समयानन्तरमथवा जलधारास्थगनान्तरमपि वृक्षस्याऽधस्तिष्ठन् पथिकः क्लिन्नो भवति । पर्णैः संगृहीतं जलं पथिकस्य उपरि पतति । तथैव तृतीयं मित्रमपि प्रारम्भकाले चारुतरं सहायं करोति । पश्चात् कार्यपूर्त्यन्तरं सर्वं विस्मरति । वृक्षवद् मित्रस्य चित्तं सततं स्वार्थे एव रमते । निरपेक्षतया सहायं कर्तुं तस्मै न रोचते । अतः केनाऽपि चिन्तकेनोक्तम् "दुर्जनस्य करुणया अलं, सुष्ठु सज्जनपीडनम् । यदा सूर्यस्तपति तदैव मेघो वर्षति ॥" "यावती अपेक्षाऽधिका तावान् मित्रतायां ह्रासः " । मित्रतां दृढीकर्तुं निःस्वार्थता निरपेक्षता चाऽत्यावश्यक्यौ । चतुर्थमित्रं खड्गफलकवत् । प्राचीनकाले युद्धसमये खड्गादिशस्त्रैर्युद्धं भवति स्म । एतादृशे युद्धे प्रतिपक्षस्य प्रहारं सोढुं फलकस्य उपयोगः क्रियते । शत्रवो यदा शस्त्राणि क्षिपन्ति तदा चर्ममयं फलकमग्रे भूत्वा प्रहारान् सहते । तथैवेदं मित्रमपि मित्रस्य सुखकाले तेन सार्धं लपनं, मिलनं, खेलनं, किमपि न करोति । किन्तु यदा आपत्तिः समागच्छति तदा विना निमन्त्रणं समेत्य प्रकर्षेण मित्रस्य साहाय्यं करोति । इदमेव प्रवरं मित्रमुच्यते । ६५
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy