SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पत्रम् पत्रम - मुनिधर्मकीर्तिविजयः ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे । सौराष्ट्रदेशे पादलिप्तनगरं भावनगरं च विहृत्य पुनः कदम्बगिरितीर्थमागतवन्तो वयमास्म । तीर्थमेतदतीव मनस्तृप्तिकरं प्रियं च स्थानमस्ति । ततोऽत्रैव कदम्बगिरितीर्थे पुनः स्वाध्यायार्थं कियत्कालं स्थिताः आस्म वयं सर्वे । ततो निर्गत्य पूज्यपादशासनसम्राटश्रीनेमिसूरीश्वराणां जन्म-समाधिस्थाने 'मधुमतीपुरि' चतुर्मास्यर्थं गुरुभगवता साकं वयं सर्वे आगच्छाम । गतपत्रे मया कदम्बगिरितीर्थस्य मधुरस्य नयनरम्यस्य निर्मलस्य च वातावरणस्य परिचयो दत्त आसीत् । अद्य तत्तीर्थविषयकं किञ्चिद् लिखामि । ___ यस्य गिरेः प्रतिकङ्करमनन्ता जीवाः शिवपदं प्राप्ताः स श्रीशत्रुञ्जयगिरिः पुरातनकाले सर्वतोऽतिविस्तृत आसीत् । एतत्तीर्थं तस्य शत्रुञ्जयगिरेः शृङ्गरूपमेवाऽस्ति । तीर्थेऽस्मिन् अतीतचतुर्विंशत्यां जातस्य श्रीसम्प्रतितीथङ्करस्य प्रथमगणभृत् श्रीकदम्बनामा कोटिसङ्ख्यकमुनिभिः साकमपारसंसारे बन्धनरूपाष्टकर्मकदम्बकमपास्य परमसुखस्वरूपं शिवपदं प्राप्तवान् । तत एवैतत्तीर्थं कदम्बगिरिनाम्ना प्रसिद्धं जातमस्ति । गिरेरस्य सर्वोच्चशृङ्गस्योपरि पूर्वं श्रीकदम्बगणधरभगवतः पादुकायुता लघुकुलिकैवाऽऽसीत् । नाऽन्यत् किमपि स्थानं मन्दिरं चाऽऽसीत् । एकदा पूज्यपादशासनसम्राट्-श्रीनेमिसूरीशः सपरिवार विहरन्नत्राऽऽगतवान् । तेन गुरुभगवताऽस्य तीर्थस्य दुःस्थिति र्णता च दृष्टा तन्मसि सन्तापश्च सञ्जातः । उद्विग्नेन तेन भगवता तदैव चित्ते सङ्कल्पः कृतः – 'अस्य तीर्थस्योद्धारः करणीय एवे'ति ।
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy