SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ न कृतसङ्कल्पस्य सिद्धिस्त्वतीवाऽतीव दुष्कराऽऽसीत् । यत एतत्तीर्थं तद्ग्रामस्य ठक्कुराणामधीनं बभूव । ते ठक्कुरास्तु सदा मदिरापानद्यूतादिव्यसनेषु रममाणा आसन् । एवं ते हिंसकास्तथाऽज्ञानिनो दुर्बोधाश्चाऽप्यासन् । 'धर्मः कः, गुरुश्च कः' इत्यपि न ते जानन्ति स्म । केवलमादिनं व्यसनेष्वेव निमग्ना बभूवुस्ते । तत एतादृशाः ठक्कुरा यदि प्रसन्नीभवेयुस्तदैवैतत्कार्यं सरलं भवेत्, एतेषां विना साहाय्यमेषस्तीर्थोद्धारोऽशक्य एवेति गुरुभगवता ज्ञातं निश्चितं च । ततो मनसिकृत्य सपरिवारं स गुरुवरस्तस्मिन्नेव ग्रामे किञ्चित्कालं स्थितिमाप्तवान् । प्रतिदिनं ग्राम्यजनान् सम्मेल्योपदेशं ददाति स्म स गुरुवरः । तत्र गुरुप्रवचनश्रवणार्थं ग्राममुख्या: ठक्कुराश्चाऽपि सदाऽऽगच्छन्ति स्म । मृगया-द्यूतसुरापानादिव्यसनैः का का हानिर्भवेत्; एवं च - न वक्तव्यमसत्यं, चौर्यं न करणीयं, कदाऽपि हिंसा न करणीया - इति सरलभाषया तेन गुरुभगवता सदोपदेशो दीयते स्म । गुरुभगवतः सदुपदेशं संश्रुत्य तेषां दुर्बोधानां ठक्कुराणां मनःपरिवर्तनं जातम् । कैश्चिज्जनैः द्यूतं सुरापानं च त्यक्तम्, कैश्चिज्जनैश्च हिंसा परिहता । एवं ते ठक्कुरा गुरुभगवतो भक्ताः सञ्जाताः । तत्राऽपि ग्रामणीस्तु परमभक्तो बभूव ।। एकदा स ग्रामणीगुरुभगवतोऽग्रे आगतवानुक्तवांश्च – "गुरुदेव ! भवताऽस्माकमुपरि महानुपकारः कृतोऽस्ति । ततो वयं किं कुर्याम येन किञ्चिदपि ऋणप्रत्यर्पणं स्यात् ?" । गुरुभगवता निषेधः कृतः । स ग्रामणीर्वारं वारमाग्रहं यदा कृतवान् तदा गुरुभगवता कथितम् – “यदि युष्माकं विशेष आग्रहः स्यात्तर्हि भवन्तो गिरेरुपरि कामपि भूमिम् - आणंदजी-कल्याणजी-संस्थायै उचितमूल्येन यच्छत" । ___ सर्वेऽप्यग्रण्यो जना भूमि प्रदातुं सन्नद्धा जाताः, किन्तु मूल्यं ग्रहीतुं निषेधं कृतवन्तस्ते । “वयं तु भवते उपहाररूपेणैव भूमिमेतां दास्यामः" । गुरुभगवतोक्तम् – “नैष आचारः साधूनामस्ति । न कदाऽपि साधवः एतादृग्रीत्योपायनं स्वीकुर्वन्ति" । अनभिज्ञाश्चाऽपि ते ठक्कुरा ऊचुः – “पुरा किल भवत एव महद्भिः सूरिभिर्जगद्गुरुश्रीहीरविजयसूरिभिः दिल्हीसम्राट-अकब्बरराजेन दत्तानि तीर्थानि स्वीकृतान्येव, इति श्रुतमस्माभिः । ततो भवान् कथं निराकरोति ? किं भवतस्तेषां च मध्येऽन्तरमस्ति ?" ___ गुरुदेवोऽवोचत् – “एवं मा वदन्तु । ते जगद्गुरुहीरसूरीश्वरास्तु महान्तः साधव आसन् । अहं तु तच्चरणरजोनिभः सामान्यसाधुरस्मि । ततस्तेषामनुकरणं मे उचितं नाऽस्ति" । ___ अन्ते, प्रबोधितास्ते ठक्कुरा वदन्ति स्म - "गुरुवर ! भवद्वचनमस्माभिः स्वीक्रियते । किन्तु विज्ञप्तिरेकाऽस्ति - ‘भवता वयं व्यसनेभ्यो मोचयित्वा मनुष्यरूपाः कारिताः, तत्स्मृतौ वयमेतां भूमि दद्मः' इति उल्लेखः कर्तव्यः" । गुरुभगवता सम्मतिर्दत्ता । सर्वेऽपि तत्र स्थिता जनाः प्रमुदिता जाताः । बन्धो ! किमेतच्छक्यमस्ति ! तीर्थोद्धारः कथं क्रियते ? शासनकार्यार्थमन्यधर्मिजनैः सह कथं व्यवहारः क्रियते ? तदत्र विशेषतो
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy