________________
सकलसत्त्वहिताय जिनाय ते
भगवते ऋषभाय नमो नमः ।।५।। स्वसुतबाहुबलिं तनयामुखाद्
"गजत उत्तर वीर" वचस्त्विदम् । प्रहितवान् भगवान् य इनाय ते
भगवते ऋषभाय नमो नमः ॥६॥ समसहस्रतपश्चरणार्जितं,
विमलकेवलरत्नमुपाहरत् । स्वजननीकरयोर्य उपांशु ते,
भगवते ऋषभाय नमो नमः ॥७॥ भविकलोकचकोरहिमांशवे,
दुरितसन्तमसौघखरांशवे । शमवते भवतेऽनुपमाय ते,
भगवते ऋषभाय नमो नमः ॥८॥ इति मया गुरुदेवपदाम्बुज
भ्रमरहेमसुधाकरसूरिणा । प्रथमतीर्थपतिः स्तुतिगोचरो
विहित ईप्सितदानसुरद्रुमः ॥९॥