________________
जलं हि द्विविधं प्रोक्तम्
- प्रो. कमलेशकुमार छ. चोक्सी
जलं हि द्विविधं प्रोक्तं मनुजैः प्राप्यते सदा । मेघजं कूपजं चैव निर्मलं शीतलं तथा ॥१॥ पानीयं द्विविधं यद्धि समुपदेशयत्यलम् । कर्मणां करणे नित्यं बालवृद्धजनांस्तथा ॥२॥ भाग्यं नाम मनुष्यस्य मेघात्प्राप्तं जलं स्मृतम् । कूपादधिगतं यच्च परिश्रमाभिधं मतम् ॥३॥ मेघजलेन यत्स्नानं सुखदं सरलं भवेत् । तस्मात् पुनः पुनः तद्धि वाञ्छति प्राकृतो जनः ॥४॥ स न जानाति सत्यं यत्प्रत्यहं तन्न शक्यते । तस्मात् मेघजलाभावे नाऽस्य स्नानसुखं भवेत् ॥५॥ एवमेवाऽत्र संसारे कदाचित् क्वचिदेव वा । भाग्यं फलति हे बाल ! न सदा सर्वदा तथा ॥६॥ परं श्रमेण स्वीयेन प्राप्तं कूपजलं त्वया । स्नानं सम्भवति तेन नित्यं यद्यपि कष्टजम् ॥७॥ एवं परिश्रमेणैव जलेन स्नाति बुद्धिमान् ।। प्रत्यहं सुखमाप्नोति स्नानजं सुखदं च यत् ॥८॥ कृपा हि परमाप्तस्य वर्षत्यविरतं मयि । इति मत्वा मनुष्येण कार्यः परिश्रमः सदा ॥९॥
३९