________________
इयमेव भ्रान्तिरुच्यते । वस्तुतः शुक्तिरपि सद्भूता, रजतमपि सदेव । भ्रमे केवलं तस्मिन् देशे काले च स्थितायाः शुक्तेः स्थानेऽन्यस्मिन् देशे काले च स्थितस्य रजतस्य दर्शनं जायते । तथाहि -
शुक्त्या चक्षुरिन्द्रिये सम्बद्धे सति कदाचित् पूर्वकालेऽन्यत्र दृष्टस्य रजतस्य सादृश्यं तत्र गृह्यते । ततश्च रजतसंस्कारोद्भवद्वारेण रजतस्य स्मृतिरुत्पद्यते । ततश्च तस्य स्मर्यमाणस्य रजतस्य प्रमात्रिन्द्रियादीनां दोषवशाद् बहिर्देशे आरोपः, आरोपितस्य प्रतिभासश्च । अर्थादुपस्थिता शुक्तिरन्यरूपेण विपरीतरूपेण वा प्रतिभासते इतीयमन्यथाख्यातिविपरीतख्यातिर्वा ।
पूर्वं कदापि रजतमदृष्टवतः पुरुषस्य नैवं भ्रम इति शुक्तौ रजतभ्रमे रजतस्मरणस्य कारणतासिद्धिः । उत्तरकालीनैर्नैयायिकैरुक्तस्मरणं ज्ञानलक्षणमलौकिकसन्निकर्षरूपमङ्गीकृत्य भ्रमज्ञानमलौकिकप्रत्यक्षं कथितम् । यद्यपि द्विचन्द्रज्ञानमलातचक्रज्ञानं शङ्खपीतत्वज्ञानमित्यादिभ्रमेषूपस्थितवस्तुनः सादृश्यस्य न काचिद् भूमिका विद्यते, तथाऽपि तत्राऽपि पुरतः स्थितस्य वस्तुनः कस्यचिद् विशिष्टस्यांऽशस्य हेतुतः स्मर्यमाणस्याऽर्थस्य दोषवशाद् बहिर्देशेऽवश्यमारोपो भवतीति ।
स्पष्टमत्र ख्यातौ पूर्वोक्ताभ्यो वैलक्षण्यम् । अस्यां ख्यातौ शुक्तौ रजतज्ञानं रजतस्मृत्या सहकृतं प्रत्यक्षात्मकमङ्गीकृतम् । न तत्र ज्ञानद्वयस्य भ्रमात्मकं संयोजनमपि त्वेककं ज्ञानम् । एवञ्च विवेकाख्यातेरस्या महान् भेदः । अथ च नाऽस्यां बाह्यार्थाः सर्वथा शून्यरूपा ज्ञानरूपाः सद्रूपा वाऽभ्युपगतास्ततोऽसत्ख्यातेरात्मख्यातेः सत्ख्यातेर्वानाऽत्राऽवकाशः । नैवाऽत्र पदार्थेषु लौकिकालौकिकविभागः, क्षणिको व्यक्ताव्यक्तविभागः, बाह्यार्थानां निर्वचनाभावः, असत्संसर्गस्य भानं वेति नैवाऽसावलौकिकख्यातिः, प्रसिद्धार्थख्यातिः, अनिर्वचनीयख्यातिरसत्संसर्गख्यातिर्वा । बाह्यार्थानामालम्बनत्वस्य भ्रमेऽप्यभ्युपगमाद् न ह्यसावख्यातिश्च । अत्र त्वेकस्य सतोऽन्यसद्रूपेण भानं स्वीकृतमस्तीति विपरीतख्यातिरेवाऽयम् ।
अन्यैदार्शनिकैविपरीतख्यातेर्खण्डने इमास्तर्काः प्रदर्शिताः -
१. भ्रमज्ञानस्य किं न्वालम्बनं भवताऽङ्गीकृतम् - रजतं वा शुक्तिर्वा ? यदि शुक्तिः, कथं स्जताकारेण तस्य ग्रहः ? यतो ज्ञाने यः प्रतिभासते, स एव वस्तुन आकारः । अन्य एवाऽऽलम्बनस्याऽऽकारः, अन्य एव प्रतिभासित इति मनने तु ज्ञानमात्रे आकारसत्यत्वाशङ्कायां ज्ञानेनाऽऽकारनिश्चयस्याऽसम्भवः । इदमपि चिन्त्यं यत् शुक्तिस्थले शुक्तिमेवाऽऽलम्बनीकुर्वाणं ज्ञानं कथं नु भ्रमो भवेत् ? .
२. यदि रजतं तस्याऽऽलम्बनीभूतमिति चिन्त्यते तर्हि शुक्तिदेशेऽसद् रजतं विषयीकुर्वाणं ज्ञानमसत्ख्यातिरेव भवति । यदि रजतस्य तत्राऽसत्त्वेऽपि, अन्यत्र सत्त्वाद् भ्रमेऽसत्ख्याति ऽङ्गीक्रियते, तीन्यत्र सतोऽपि तस्य चक्षुषाऽसन्निकृष्टत्वात् कथं चाक्षुषम् ?
५६