SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ १. प्रभाकरेण परतःप्रामाण्यवादस्य शून्यवादस्य च स्वीकाराद् भीतिमाप्य विपरीतख्यातेः स्थाने विवेकाख्यातिरभिषिक्ता । परं विवेकाख्यातावपि स्मृतिः स्मृतित्वेन न, किन्त्वनुभवत्वेन गृह्यते (अत एव स्मर्यमाणं रजतमिदन्त्वेनाऽवबुध्यते) इति साऽपि विपरीतख्यातित्वेनैव परिणता किल ! वस्तुतो विवेकाख्यातावपि परतःप्रामाण्यस्वीकारस्याऽऽपत्तिस्तदवस्थैव । यतः कालान्तरे रजतज्ञाने जाते सति प्रमातुराशङ्कोद्भविष्यत्येव यदत्र स्मृतिप्रमोषात्मको मिथ्यैव रजतप्रतिभास उत सत्यरजतस्यैव प्रत्ययः ? अस्या आशङ्काया निराकरणार्थं संवादादेर्बाधकामावस्याऽन्वेषणं कर्तव्यमेव । तर्हि परतःप्रामाण्यं नन्वागतमेव । यतो यावद् न बाधकाभावनिश्चयो, न तावत् प्रामाण्यनिश्चय इति । किञ्च, शून्यवादस्याऽऽपत्तिरपि स्मृतिप्रमोषे आपतत्येव । यतः शुक्तौ जायमाने रजतज्ञाने यो रजताकारः प्रतिभासते, स सन्निहितरूपेण भवति । स्मृतौ पुनः प्रतिभासमानो रजताकारोऽसन्निहितरजतस्येति तस्य भ्रमज्ञाने न कोऽप्युपयोगः । तात्पर्यत: 'इदं रजत'मिति भ्रमज्ञाने प्रतिभासितं सन्निहितं रजतमसदेव सिद्धम् । एवञ्च ज्ञानस्याऽसदर्थविषयिताऽप्यङ्गीकृता भवतीति सर्वेषां ज्ञानानामसदर्थविषयकत्वे शून्यवाद एव फलित इति । २. भ्रमज्ञानोत्तरकाले जायमानेन ‘नेदं रजत'मिति ज्ञानेन भ्रमज्ञाने भासितस्य रजतस्याऽसद्रूपतैवाऽऽवेदिता भवति, न हि तत्र रजतप्रतिभासस्य 'रजतप्रतिभासः प्रकृतः स्मृति'रिति स्मृतिरूपताया आवेदनमिति कथं भ्रान्तेः स्मृतिप्रमोषगभितत्वम् ? । ३. भ्रान्तेर्ज्ञानद्वयात्मकत्वे तस्याः स्वसंवेदनं केन स्वरूपेण भवेत् - प्रत्यक्षरूपेणोत स्मृतिरूपेण ? उभयात्मकरूपेण स्वसंवेदनं त्वनुभवविरुद्धमिति । ४. युगपद् ज्ञानद्वयस्य सत्ताऽनुभवविरुद्धत्वात् स्वयं प्रभाकरेणाऽप्यस्वीकृतेति युगपद् ज्ञानद्वयस्याऽभावे कथं भेदाग्रहः ? । ५. प्रत्यभिज्ञाया बलेनाऽपि भ्रमज्ञानस्यैकत्वमेव सिद्ध्यतीति । एवञ्चोपर्युक्तानां ख्यातीनामभ्युपगमानर्हतां दृष्ट्वा जैनैरन्यथाख्यात्यपराभिधाना विपरीतख्यातिरुररीकृता । या च नैयायिकैवैशेषिकैः कुमारिलभट्टादिभिरपि स्वीकृताऽस्ति । १०. जैन-नैयायिकादीनां सम्मताऽन्यथाख्यातिः एकस्य वस्तुनोऽन्यवस्तुरूपेण प्रतीतिरन्यथाख्यातिविपरीतख्यातिर्वोच्यते । अयमेव विपर्ययो . यदन्यस्मिन्नालम्बनेऽन्यप्रत्ययोत्पादः । शुक्तौ शुक्तिप्रत्ययोऽविपरीतो रजतप्रत्ययश्च विपरीतः, यौ च क्रमश इन्द्रियादीनां गुणदोषयोर्फलभूतौ । दोषवशात् शुक्तिरात्मरूपेणाऽप्रत्यक्षीभूय रजतत्वेन प्रत्यक्षीभवति ।
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy