SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ . अयमन्यश्चाऽन्यथाख्यातेविरोधे तर्कः - यद्यन्यदेशस्थितमपि रजतं शुक्तिदेशे प्रतिभासेत, तर्हि शशशृङ्गादीनामत्यन्तासतामपि कुतस्तत्र भानं न भवेत् ? यतो विवक्षिते देशे, अन्यत्र सतोऽत्यन्तासतश्चोभयस्याऽसत्त्वं समानमेव । ततश्चाऽन्यथाख्यातेरसत्ख्यातावेव पर्यवसानप्रसङ्ग इति । उक्तदोषेभ्यस्त्राणार्थं भ्रमज्ञानस्य सदर्थविषयकत्वाङ्गीकारे सत्ख्यातिस्तन्नाम सर्वत्र सर्वदा सर्वेषां सत्ताऽभ्युपगमनीया भवेत्, तच्च महदनिष्टमित्याकलय्य प्रभाकरेण भ्रमोत्पत्तेर्नूतना प्रक्रिया प्रदर्शिता, या च 'अग्रहणं, विवेकाग्रहणं, विवेकाख्यातिः, अख्यातिः, भेदाग्रहः, स्मृतिप्रमोष' इत्यादिभिरभिधाभिर्व्यवहियते । प्रभाकरमते इन्द्रियसनिकृष्टादन्यस्य प्रत्यक्षमसम्भवि । यतोऽसन्निकृष्टस्याऽपि प्रत्यक्षालम्बनत्वेऽन्धस्याऽपि शुक्तौ रजतप्रतिभासप्रसङ्गः । इदमत्र चिकथयिषितम् - चक्षुष्मतोऽन्धस्य च शुक्तिस्थले रजतासन्निकर्षस्य समानत्वेऽपि, एकस्यैव रजतभ्रमः, नाऽपरस्येति रजतबुद्धौ रजतमेव विषयत्वेन स्वीकर्तव्यं, न शुक्तिः । एवञ्च ज्ञानमात्रे प्रतिभासमानस्यैवाऽर्थस्य विषयत्वं स्वीक्रियते । न किमपि ज्ञानमालम्बनव्यभिचार्ययथार्थं चेति । अत्र प्रश्न उद्भवति यत् सर्वाण्यपि ज्ञानानि यदि यथार्थान्येव भवन्ति, तर्हि शुक्तौ शुक्तिज्ञानमभ्रान्तं रजतज्ञानं पुनर्धान्तमिति कथम् ? कथं वा शुक्तौ रजतज्ञानस्य भ्रमत्वोपपत्तिः ? प्रभाकरोऽत्र समादधति यद् यदा कश्चित् पुरुषो रजतसदृशां शुक्तिं पश्यति, तदा यदि स इन्द्रियादिगतदोषवशतो रजतात् शुक्तौ यद् वैलक्षण्यं तदगृहीत्वा केवलं तद्गतं सादृश्यमेव गृह्णाति, तर्हि तस्य तत्प्रत्यक्षतो रजतस्मरणमुबुध्यते । स च पुरुषो मनोवैकल्यादिना प्रत्यक्ष-स्मरणयोर्यो भेदो यश्च प्रत्यक्षीक्रियमाणशुक्ति-स्मर्यमाणरजतयोर्भेदः, तं नाऽवधारयति । स ज्ञानद्वयं वस्तुद्वयं चैकत्वेनाऽध्यवस्यति । फलतः स शुक्तिं रजतत्वेन मनुते । लोकेऽयं 'भ्रम' इत्युच्यते, परं वस्तुतः स न भ्रमः, अपि तु यथार्थज्ञानद्वयमध्ये यो भेदस्तस्याऽग्रहः, भिन्नस्वरूपज्ञानद्वयविषयीभूतयोर्वस्तुनोर्यो विवेकः(-वैलक्षण्यं) तस्याऽख्याति(-अज्ञप्ति)र्वा । अयमत्र सारांशः - शुक्तौ रजतस्य भ्रमात्मकं ज्ञानमन्यैर्दार्शनिकैरेकत्वेनाऽङ्गीकृतं, परं प्रभाकरेण स्वतःप्रामाण्यरक्षणार्थं स्वीकृतस्य 'सर्वाण्यपि ज्ञानानि यथार्थान्येवे'ति सिद्धान्तस्याऽनुरूपं शुक्तिप्रत्यक्षरजतस्मरणात्मकस्य यथार्थस्यैव ज्ञानद्वयस्य मिथ्यैकीकरणं भ्रमस्थलेऽभ्युपगतम् । तन्मते एवङ्करणेन नैव परतःप्रामाण्यं पुरस्कृतं भवति, न हि शून्यवादायाऽवकाशो दत्तो भवति । पुनः शुक्तिस्थले रजतस्याऽभाव एवाऽङ्गीकृत इति न सत्कार्यवादस्याऽपि प्रसङ्गः । अन्यैः सर्वैरपि दार्शनिकैरस्या विवेकाख्यातेः प्रबलः प्रतीकारो विहितोऽस्ति । सन्मतितर्कवृत्तावप्यस्या विस्तृतं खण्डनं समुपलभ्यते । दार्शनिकैः प्रस्तुतेष्वनेकेषु तर्केषु मुख्यभूता इमे - ५४
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy