SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आस्वादः ब्रह्मचर्यम् अस्मिन् मनुजभवे सर्वेन्द्रियजयार्थं ब्रह्मचर्यं मुख्यम् । तत् कुतः ? उक्तञ्च - सङ्गात्संजायते काम: कामाल्लोभोऽभिजायते । क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ सङ्गात् कामस्तस्मात्क्रोधः क्रोधात्मोहः मोहात्स्मृतिविभ्रमः स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशाद् विनाशो भवति । अतः कारणात् सर्वेषामनर्थाना मूलं कामः । तज्जयो ब्रह्मचर्यम् । - ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-प्रव्रज्या इति चतुर्णामाश्रमाणां मूलं ब्रह्मचर्यम्, तेषामाधारो ब्रह्मचर्यम् । तस्मिन् नष्टे सर्वे नष्टप्रायाः स्युः । ततस्तन्मुख्यम् । ब्रह्मचर्यं किमिति ? वीर्यरक्षणं तत् । वीर्यं तेजः । तत् तेजः - ईश्वरप्राप्तिकारणम् । तस्मिन्नष्टे सर्वं नष्टं 'मूलं नास्ति कुतः शाखा' इति न्यायेन निश्चयेन मन्तव्यं न तु सन्देहेन । वीर्यनाशात् सर्वं नष्टं कुतः ? वीर्यं तेजश्च बलं वा । अतस्तेजसो बलाद्वा - इदं शरीरम् । विना च ब्रह्मचर्यमिदं शरीरमपि नष्टप्रायम् । तस्मिन्नष्टे चेतराणि जन्मान्यपि नश्यन्ति । अत्र भवे कामवासनया मृतश्चेत् भवान्तरेऽपि सैव । यादृशी वासना (अन्ते) तादृशी सिद्धिरिति । "यं यं नापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।। तं तमेवैति कौन्तेय ! सदा तद्भावभावितः" ॥ इति वचनात् । अतः सर्वेषां भावानामपि मूलं ब्रह्मचर्यम् इति ज्ञेयम् । कामविजय एव ब्रह्मचर्यम् । ब्रह्मचर्यात् सर्वेन्द्रियाणि मनोबुद्धिचित्तादीनि पुष्टतराणि भवन्ति । तस्मिन्नष्टे सर्वे कुमार्गे कुविचारे च प्रवर्तन्ते । अतोऽपि तन्मूलं ब्रह्मचर्यम् । ६०
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy