________________
गन्धगुणस्य मात्रायाः समधिकत्वात् तेषां गन्धद्रव्यत्वेन व्यवहारः, तथैव येषु ज्ञानेषु संवादापेक्षया विसंवादस्य मात्राऽधिकां दृश्यते तानि ज्ञानानि 'भ्रमात्मका'नीत्युच्यन्ते । विसंवादापेक्षया संवादस्याऽऽधिक्यं पुनः प्रामाण्यव्यवहारस्य निबन्धनं भवति । एवञ्च भ्रमज्ञानस्याऽपि केषुचिदंशेषु सद्भूतस्याऽर्थस्य केषुचिच्चाऽसद्भूतार्थस्य ग्राहकत्वात् सदसत्ख्यातिरेव सिद्ध्यति, या च वस्तुतो जैनानामभीष्टाऽस्ति ।
ख्यातिवादस्य निरूपणमत्र समाप्ति भजते । प्रमाणशास्त्रेष्वितोऽपि बहु बह्वस्मिन् विषये चर्चितम्; परं सारल्य-सङ्केपयोः, यौ चाऽस्यां लेखश्रेण्यां प्रमुखत उद्देश्यीभूतौ तयोः, संरक्षणार्थं प्रमाणशास्त्रेभ्यः स्वल्पमेव चित्वाऽत्रोल्लिखितमस्ति । लेखकस्य स्वकीयायाः क्षमताया मर्यादाऽपि खल्वत्र कारणीभूता । जिज्ञासवः प्रमाणशास्त्राण्यवश्यं पश्येयुरित्यनुरोधः ।
लेखश्रेण्या अस्मिन् चरणे 'न्यायावतारवातिकवृत्तिः' (क.-शान्त्याचार्यः, सं.-दलसुख-मालवणियावर्यः, प्र.-सरस्वती पुस्तकभण्डारः-अहमदाबाद) इतिग्रन्थगताभ्यः ख्यातिवादेन सम्बन्धिनीभ्यः टिप्पणीभ्यः, 'षड्दर्शन-भाग २' (क.-नगीन शाह, प्र.-युनिवर्सिटी-ग्रन्थनिर्माण-बोर्ड-गान्धीनगर) इतिपुस्तकगताद् 'भ्रान्तज्ञाने'ति प्रकरणाच्च महत् साहाय्यं गृहीतमस्ति । तदतिरिच्य न्यायकुमुदचन्द्रः (-प्रभाचन्द्राचार्यः), प्रमेयकमलमार्तण्डः (-प्रभाचन्द्राचार्यः), अष्टसहस्रीतात्पर्यविवरणम् (-यशोविजयोपाध्यायः), ख्यातिवादः (-शङ्करचैतन्यभारती) इत्यादीनामपि ग्रन्थानां सन्दर्भा अत्र सगृहीताः सन्ति । एतदर्थं लेखकस्तेषां सर्वेषां कार्तश्यमावहति ।