SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३. ब्रह्माद्वैतवादिसम्मताऽनिर्वचनीयख्यातिः ब्रह्माद्वैतवादिनः कथयन्ति यत् शुक्तौ रजतज्ञानस्य विषयीभूतं रजतं नहि सत्, तथा सति तज्ज्ञानस्य मिथ्यात्वाभावात्; नाऽप्यसत्, असतः शशशृङ्गवद् ज्ञानस्य प्रवृत्तेर्वा विषयीभवनस्याऽभावात्। न च सदसदुभयरूपम्, उक्तपक्षद्वयदोषसंमीलनात् । अतो भ्रमज्ञाने प्रतिभासितस्य रजतस्य सदसद्रूपेण निर्वचनस्याऽभावादनिर्वचनीयत्वम् । तद्ग्राहकं ज्ञानं चाऽनिर्वचनीयख्यातिः । ___ शाङ्कराद्वैतमते केवलं ब्रह्म परमसत् सत्त्वेन वाच्यं च । अतोऽन्यद् निखिलमविद्याजन्यमविद्यात्मकं चेति मिथ्यैव । ततश्च ब्रह्मज्ञानातिरिक्तं ज्ञानमात्रं भ्रमः, यश्च तत्त्वज्ञानापरनामब्रह्मज्ञानेन बाध्यते । अविद्या तद्रूपा बाह्यार्थाश्च सदसद्विलक्षणास्तन्नामाऽनिर्वचनीयाः । नैव ते सन्तः, तत्त्वज्ञानबाध्यत्वात्; नाऽप्यसन्तः, अर्थक्रियाप्रवर्तकत्वात्; नोभयरूपाः, सत्त्वा-ऽसत्त्वयोरन्योन्यं विरोधादिति तेषामनिर्वचनीयत्वं तज्ज्ञानस्याऽनिर्वचनीयख्यातित्वं च । एवञ्च ब्रह्माद्वैतवादे ब्रह्मज्ञानातिरिक्तं ज्ञानमात्रमनिर्वचनीयख्यात्यभिधा भ्रान्तिरेव । परमियं परमभ्रमस्य चर्चा । व्यवहारे तु प्रमा-ऽप्रमा-ऽन्यतरात्मकं ज्ञानं सम्भवति । तत्राऽयं विवेकः - अविद्याया मूलभूतकार्यस्य ज्ञानं प्रमा, एकस्मिन् मौले कार्येऽपरमौलकार्यस्याऽऽरोपेण जायमानं ज्ञानमप्रमेति । तथा हि - शुक्तौ रजतज्ञानं भ्रमः । तत्राऽविद्या रजतस्योपादानं शुक्तिश्चाऽधिष्ठानम् । अधिष्ठानीभतशक्तावविद्याजन्यस्य रजतस्य दोषवशादारोपः । ततश्चाऽन्तःकरणस्य रजताकारया मिथ्यावत्त्या 'इदं रजत'मिति भ्रमः । अनन्तरं च दोषनाशेनाऽन्तःकरणस्य सम्यग्वृत्त्या जातेन शुक्तिज्ञानेन रजतज्ञानस्य बाधो निवृत्तिश्च । यथा च पूर्वं दर्शितं, ज्ञाने प्रतिभासितमिदं रजतं सदसद्विलक्षणत्वादनिर्वचनीयमिति तद्ग्राहिका प्रतीतिरप्यनिर्वचनीयख्यातिः । ___ वस्तुतो विज्ञानवादिनामात्मख्यातितोऽद्वैतवादिनामनिर्वचनीयख्यातौ नाममात्रस्य भेदः । उभये बाह्यार्थान् नैव सतः प्रतिपादयन्ति, नैवाऽसतः । उभयमतेऽन्तरङ्गस्याऽमूर्तस्य तत्त्वस्य बाह्यत्वेन प्रतिभासः सम्मतः । एके तत् तत्त्वं 'विज्ञान'मिति कथयन्त्यपरे च ‘अविद्ये'ति । एकस्मिन् मते विपरीताया वासनाया हेतुत एकरूपस्याऽपि विज्ञानस्य द्वैधीभावस्तज्जन्या ग्राह्य-ग्राहकभावप्रतीतिश्च । अपरस्मिन् मतेऽविद्याहेतुतो ब्रह्मगता चिच्छक्तिरविद्योपादानकस्य रजतस्य प्रतीतौ व्यापृणोति । द्वैतवादिन आचार्या अविद्याया ब्रह्मणश्च पीठिकाया उपरि विरचितमद्वैतप्रासादं कर्कशतर्कप्रहारपरम्परया समूलमुत्पाटितवन्तोऽनिर्वचनीयख्यातिं च प्रबलतया खण्डितवन्तः । अनिर्वचनीयख्यातेरात्मख्यात्या तुल्यत्वात् तत्पक्षे प्रदर्शिता दोषा अत्राऽप्यन्वियन्त्येव । ४. चार्वाकसम्मताऽख्यातिः चार्वाकः कथयति यत् शुक्तावुत्पद्यमान 'इदं रजत मिति प्रत्ययः किं विषयीकरोति ? नैव रजतम्, तथा सति तस्य सत्यविषयकत्वेन प्रमात्वाद् भ्रमत्वाभावात्; नाऽपि रजताभाव;, रजतज्ञानस्य
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy