SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ इत्थमत्र समाहितं विज्ञानवादिभिः - लोकव्यवहारेऽस्माकमिन्द्रियाणां शक्त्यनुरूपं, तन्मर्यादामनुसृत्यैव वयं संवादिज्ञानानि प्रमाणभूतानीति स्वीकुर्मः । यथा हि द्वयोर्दृष्टिरोगग्रस्तयोद्विचन्द्रदर्शने परस्परं संवादित्वादन्योन्यापेक्षं तद् दर्शनं भ्रान्तमप्यविसंवाद्यनुभूयते, तथैव वयं पृथग्जना इन्द्रियशक्तेस्तुल्यत्वेनाऽन्योन्यापेक्षं कानिचिद् ज्ञानानि भ्रान्तानि कानिचिच्चाऽभ्रान्तानीति स्वीकुर्मः । अत: पारमार्थिकदृष्ट्या सर्वेषां सविषयकज्ञानानां भ्रान्तत्वेऽपि, दृश्य-प्राप्ययोरेकत्वा-ऽनेकत्वारोपतो जन्यानां संवाद-विसंवादानामाधारेण व्यावहारिकस्तरे भ्रान्ता-ऽभ्रान्तव्यवस्था घटत्येव । अयमत्र भावः - वासनायाः संवादि वा विसंवादि वा सर्वमपि कार्यजातं वासनामूलकत्वेन परमार्थतो मिथ्या । तेषु सर्वेषु प्रत्ययेषु वासनोद्भूतानां ज्ञानस्य स्वीयानामाकाराणां बाह्यत्वेन प्रतीतिरित्यात्मख्यातिः सर्वत्र । विज्ञानस्यैकत्वाच्छुद्धत्वादविभागत्वाच्च न तत्र बाध्य-बाधकभावो भ्रान्ता-ऽभ्रान्तविवेको वा । व्यवहारे पुनर्यो ज्ञानाकारः पूर्वोत्तरैआनाकारैः संवादी भवति सोऽविपरीतवासनाप्रबोधमूलकत्वेनाऽभ्रान्तः परिगण्यते । यस्माच्च ज्ञानाकारादनन्तरं विपरीतस्य ज्ञानाकारस्योत्पादिकाया वासनायाः प्रबोधो जायते, स ज्ञानाकारो विसंवादित्वेन व्यवहारे 'भ्रान्त' इत्युच्यते । एवञ्च वासनाप्रसूतत्वेन प्रतिबद्धस्य मिथ्यात्वस्य सर्वेषु ज्ञानाकारेषु तुल्यत्वेऽपि, विपरीता-ऽविपरीतवासनामूलकत्वस्य निर्धारणाद् व्यवहारे भ्रान्ता-ऽभ्रान्तविवेकः सम्भवति । योगाचारसम्मताया अस्या आत्मख्यातेर्दार्शनिकान्तरैः प्रबलं खण्डनं विहितमस्ति । आत्मख्यातेः सिद्धान्तः पूर्णतः, बाह्यार्थानामसत्ता, एकमात्रशुद्धाविभाज्यस्य विज्ञानस्याऽस्तित्वं, वासनायाः प्रबोधेन उद्भूयमाना नाना विज्ञानाकारा - इत्येतेष्वंशेष्ववलम्बितोऽस्ति । अतो विज्ञानवादसम्मतानामेषामंशानां खण्डने जातेऽऽत्मख्यातिरपि खण्डिता भवत्येव । बाह्यप्रपञ्चस्य प्रामाणिकतायाः सिद्धावात्मख्याति: स्वयं 'भ्रम'रूपेण परिणमति । किञ्च, आन्तरतत्त्वरूपस्य विज्ञानस्य बाह्यार्थत्वेन ज्ञानमन्यथाख्यातिरेव भवति, न त्वात्मख्यातिः । आत्मख्यातिस्तु तदा जायेत, यदा ज्ञानं स्वीयमाकार'मिदमह'मिति 'अयं ममाऽऽकार' इति वा गृह्णीयात् । न चैवमिति कथं नामाऽऽत्मख्यातिः ? अपरञ्च, ज्ञानस्य विषयीभूतानां ज्ञानेऽसम्भविनां छेद-भेद-दाहादीनां बाह्यार्थानां ज्ञानाकारत्वमननं नैव युक्तियुक्तम् । व्यावहारिकस्य भ्रान्ता-ऽभ्रान्तविवेकस्य कृते आवश्यकस्य वासनाया वैपरीत्या-ज्वैपरीत्ययोनियामकं तत्त्वान्तरमपि विज्ञानवादेऽसम्भवीति तत्र भ्रान्ता-ऽभ्रान्तविवेकस्य बाध्य-बाधकभावस्य वाऽसम्भवस्य न्यूनत्वं तदवस्थमेव ।
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy