SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ रजताभावाविषयकत्वस्याऽसम्भवात्; नाऽपि स्वरूपेण शुक्तिः, तस्या अप्रतिभासात्; नाऽपि रजताकारेण शुक्तिस्तस्य विषयः, अन्यस्याऽन्याकारेण ग्रहणस्याऽस्वीकारात् । एवञ्च शुक्तौ रजतज्ञानस्याऽऽलम्बनरहितत्वाद् निरालम्बनत्वमेव । यतश्च भ्रान्तौ न कस्याऽप्यर्थस्य ख्यातिस्ततश्च तत्रा' ऽख्यातिः' इति परिगणनम् । विपर्ययज्ञानमपि सालम्बनं भवतीति स्वीकर्तार आचार्याः कथयन्ति यद् - १. यदि विपरीतप्रत्ययो निरालम्बनो भवति, न च तत्र स्वस्य परस्य वा कस्याऽपि प्रतिभास: सम्भवति, तर्हि कुतस्तेषां 'जलज्ञानं, रजतज्ञान' मित्याकारप्लावितान्यभिधानानि ? २. किञ्च, तथा सति भ्रमज्ञानेषु मिथो भेदाभावप्रसङ्गः, निरालम्बनज्ञानेषु विषयप्रयुक्तस्य वैशिष्ट्यस्याऽभावात्, विषयातिरिक्तस्य भेदकतत्त्वस्य चाऽसम्भवात् । ३. अपरञ्च, एवं सति स्वापे भ्रमे चोभयत्र कस्याऽपि प्रतिभासस्याऽभावात्, किंकृत उभयास्ववस्था भेदः ? वस्तुतोऽख्यातिवादसमर्थकस्य चार्वाकशिरोमणेर्भट्टजयराशेरेकमात्रं कार्यमिदमेव यदन्यैर्दार्शनिकैः स्वस्वतर्कबलेन यद् यत् साधितं तस्य तस्य नितान्तमसिद्धेः प्रदर्शनम् । दर्शनमात्रस्य प्रयोजनमस्ति मिथ्याज्ञानस्य नाशद्वारा मोक्षप्राप्तिः । यदि च संसारे मिथ्याज्ञानमेव न भवेद्, न भवेत् तर्हि दर्शनस्य प्रयोजनमपि । अत एव दार्शनिकैर्निरूपितस्य मिथ्याज्ञानस्याऽपि खण्डनं भट्टजयराशेरभीष्टम् । स कथयति यद् ‘“मिथ्याज्ञानस्य विषयव्यवस्था सम्भवति चेदेव ज्ञानस्याऽऽलम्बनमन्यत् प्रतीतिविषयभूतं चाऽन्यदितीदं ज्ञानं मिथ्येति कथयितुं शक्यते । न चैवं, मिथ्याज्ञानस्य विषयव्यवस्थाया अभावे, विषयान्यथात्वकृतस्य मिथ्यात्वस्याऽपि ज्ञानेऽभाव इति व्यभिचारिज्ञानस्याऽसम्भव एव । " एवं दृश्यते चेदख्यातेस्तात्पर्यं नैव भ्रमोत्पत्तेः प्रक्रियाविशेषस्य स्वरूपविशेषस्य वा वर्णने समस्ति, अपि तु भ्रमज्ञानस्योच्छेद एव तस्योद्देशः । अग्रे गत्वा तु भट्टजयराशिना ज्ञानमात्रस्याऽनालम्बनत्वसिद्धौ प्रयतितम् । यतः प्रमाणबलेन प्रमेयव्यवस्थायाः खण्डनं तस्य सिसाधयिषितमासीत् । परं प्रमेयकमलमार्तण्डकारादिभिः प्रभाचन्द्रादिभिस्तस्य प्रबलं खण्डनं विहितमस्ति । ५. वाचस्पतिमिश्रादीनां विविधा असत्संसर्गख्यातयः न्यायटीकाकृद्-वाचस्पतिमिश्रादीनां मते देशान्तरप्रसिद्ध-रजतनिष्ठ - रजतत्वस्य शुक्तौ योऽलीक: समवायस्तस्य 'इदं रजत 'मिति शुक्त्यालम्बनके ज्ञाने प्रतिभासः । अत्र शुक्तिरपि सती, रजतत्वमपि सत्, परं तदुभयनिष्ठस्य यस्य समवायस्य ज्ञानेऽध्यासः, तस्याऽलीकत्वादियमसत्संसर्गख्यातिरित्युच्यते । केचनाऽऽचार्यास्तु प्रतिपादयन्ति यद् रजतं तादात्म्येन रजतनिष्ठमेव परमसत् - तादात्म्यग्रहाच्छुक्तौ तस्य प्रतिभासः । इयमप्यन्यप्रकाराऽसत्संसर्गख्यातिरेव । एवमलीकसंसर्गभानजानामन्यासामसत्संसर्गख्यातीनामपि निरूपणमुपलभ्यते । ४९
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy