________________
रजतं देशान्तरे सदेव, पुरोवर्तिन्यन्यस्मिंश्च सद्भूतेऽर्थे तस्य प्रतिभास: अयमंशोऽन्यथाख्यातावसत्संसर्गख्यातौ च समान एव । भिन्नता केवलमियत्येव यद्, असत्संसर्गख्यातौ सदुपरागेणाऽसत्सम्बन्धस्य भानं स्वीक्रियते, अन्यथाख्यातौ चैकः सदर्थोऽन्यसदर्थरूपेण प्रतिभासते ।
न ह्यसतः प्रत्यक्षं, न चाऽसतः केनचित् सम्बन्ध इत्यादयस्तर्का असत्संसर्गख्यातेः प्रतिपक्षे दीयन्ते । अपरञ्च, ‘संसर्गोऽलीक' इति स्वीकृतावपि तेन सम्बन्धेन प्रतिभासमानस्य पदार्थस्य पुरोवर्तिनि पदार्थे सत्ता तु स्वीकार्यैव । तस्याः सत्तायाः सत्यत्वे सत्ख्यातेरसत्यत्वे चाऽसत्ख्यातेरस्याः ख्यातेर्न कोऽपि भेदोऽवशिनष्टि ।
-
अथ भ्रमज्ञानस्य विषयीभूतस्य बाह्यार्थस्य सत्तां ये स्वीकुर्वन्ति तेषां दार्शनिकानां ख्यातिषु विमर्शः क्रियते । बाह्यार्थवादिषु पक्षद्वयम् । एकेषां मतेन ज्ञानेऽविद्यमानस्य प्रतिभासो न सम्भवति । अतः सर्वत्र सर्वस्य सत्ता स्वीक्रियते, ज्ञानमात्रे च सदेव प्रतिभासते । ततश्च ज्ञानमात्रं परमार्थतः प्रमैव । केषुचिद् ज्ञानेषु यो भ्रान्तताया व्यवहारो भवति, स स्थूलेन लोकव्यवहारेणैव । कथं स स्थूल लोकव्यवहार इति प्रदर्शनपराः ख्यातयः
६. साङ्ख्यसम्मता प्रसिद्धार्थख्यातिः
सत्कार्यवादिनां साङ्ख्यानां मतेन कस्याऽपि वस्तुनो न कुत्राऽप्यभावः । वस्तुन्याकाशकुसुमवत् सर्वथाऽसद्भूते सति न तस्य प्रतिभाससम्भवः । यत्र कुत्रचिदपि यदा कदापि यस्याऽर्थस्य ज्ञानं जायते, तत्र तत्र तदा तदा च सोऽर्थः प्रमाणप्रसिद्ध एव । अतो भ्रमस्थले प्रसिद्धस्यैवाऽर्थस्य ज्ञप्तेर्हेतुत: ‘प्रसिद्धार्थख्याति’रित्युच्यते ।
सत्कार्यवादेऽर्थानामुत्पादविनाशयोरसम्भवः | अर्थानां व्यक्ताव्यक्तीभाव एव तत्र स्वीकृतः । अर्थानां व्यक्तीभाव एव व्यवहारसत्त्वम् । तेषामव्यक्तीभाव एव व्यवहारेणाऽसत्त्वम् । परमार्थतस्तु वस्तु सर्वदा सर्वत्र सदेवेति ।
भ्रमकालेऽपि पुरोवर्तिन्यर्थे रजतं व्यक्तमेव । अत एव तस्य ग्रहणम् । परन्त्वनन्तरकाले कारणवश - तस्तस्याऽव्यक्तीभावे सति, लोकव्यवहारे तस्याऽनुपलब्धितः पूर्वज्ञानं वयं 'भ्रम' इति वच्मः । यत्र चाऽनन्तरकालेऽपि बाह्यार्थस्य व्यक्तीभावतस्तस्योपलब्धिस्तत्र व्यवहारतः पूर्वज्ञानमभ्रान्तमित्यभ्युपगच्छामः । वस्तुतस्तु तदुभयमप्यभ्रान्तम् । विद्युदादेः क्षणिकस्य पदार्थस्येव रजतस्योत्तरकालेऽनुपलब्धावपि ज्ञानकाले तु तस्याऽस्तित्वं प्रमाणसिद्धमेव । अन्यथा विद्युदादेर्ज्ञानमपि भ्रमात्मकमभ्युपगमनीयं भवेत् ।
५०