________________
सत्कार्यवादिनां प्रसिद्धार्थख्यातेः पुरत इमाः समस्याः प्रस्तुतीक्रियन्तेऽन्यः
१. जलस्य शुष्कीभवनादनन्तरमपि तस्य पूर्वकालीनायाः सत्तायाः सूचकानि भूस्निग्धतादिचिह्नान्युपलभ्यन्ते एव । न वै जलस्य विद्युदादेरिव शीघ्रं निरन्वयविनाशस्य सम्भवः । एवं सति मरुमरीचिकासु जलस्य यद् भ्रमात्मकं ज्ञानं जायते, तत्र भूस्निग्धतादिचिह्नानामनन्तरमनुपलब्धावपि, भ्रमकाले जलस्याऽस्तित्वमासीदिति कथं नु स्वीक्रियेत ?
२. विद्युदर्शकानामुत्तरकाले विद्युतोऽनुपलब्धावपि, पूर्वकाले समानायाः प्रतीतेर्बलेन, परस्परमपेक्षीकृत्य प्रामाण्यनिश्चयः सम्भवति । शुक्तिस्थले तु नैवं सर्वेषां समाना रजतप्रतीतिः, यद्बलेन रजतज्ञानस्य प्रामाण्यनिश्चयः, तज्ज्ञानकाले रजतस्य व्यक्तीभावस्य निश्चयो वा सम्भवेत् । .
३. ज्ञानभासितमात्रस्य पदार्थस्य तत्काले तत्क्षेत्रे चाऽस्तित्वस्य स्वीकारः, एकत्रैव युगपद् रजतस्य शुक्तेश्च व्यक्तीभावं साधयेत्, एकस्यामेव शुक्तौ व्यक्तिभेदेन युगपद् रजतज्ञानस्य शुक्तिज्ञानस्य च सम्भवात् । महदनिष्टं चैतद्, एकत्र युगपद् वस्तुद्वयस्य व्यक्तीभावस्य साङ्ख्यैरनङ्गीकारादिति । ७. मीमांसकैकदेशिसम्मताऽलौकिकख्यातिः
केचन मीमांसका अविद्यमानस्य प्रतिभासं नैवाऽङ्गीकुर्वन्ति । ते कथयन्ति यद् ज्ञाने 'उपस्थितमन्यत्, अन्यच्च किञ्चित् प्रतिभात'-मित्येवं विपर्यय एव न सम्भवति । किं तर्हि ? निखिलानि ज्ञानानि परमार्थतोऽवितथानि । व्यवहारस्य मतेनैव ज्ञानेषु भ्रान्ता-ऽभ्रान्तविवेकः । परं ज्ञानिनां दृष्टौ त्वेतादृशो विवेक एव भ्रान्तिः । __ तेषां मते बाह्यार्थो द्विविधो भवति : १. व्यवहारसमर्थः २. व्यवहारेऽसमर्थश्च । व्यवहारसमर्थोऽर्थो लोकसम्मतत्वाद् लौकिको गण्यते, द्वितीयश्च विकल्पबुद्धेविषयत्वाद् लोकेऽसम्मतत्वादलौकिक उच्यते । अयं च शास्त्रविद्भिर्व्यवहार्यत्वेन युक्तोऽपि लोकव्यवहारेऽकिञ्चित्करत्वादसद्रूपेण परिगण्यते । भ्रमज्ञाने चाऽयमेवाऽऽलम्बनीभूतः, अत एव तत्राऽलौकिकख्यातिः ।
अयमत्राऽऽशयः - भ्रान्तरूपेणाऽङ्गीक्रियमाणे शुक्तौ रजतज्ञाने नैव लौकिकरजतं विषयीभवति, अपि त्वलौकिकम् । परमार्थतस्तु सर्वत्र सर्वदा सर्वेषां सत्त्वं भवत्येव । तच्च लौकिकत्वेनाऽलौकिकत्वेन वेत्यन्यदेतत् । लोके लौकिकसत्त्वस्य ग्रहणं नाम प्रमा, अलौकिकसत्त्वस्य ग्रहणं च भ्रम इति व्यवस्था ।
मीमांसकैकदेशिनां दृष्टौ, भ्रमज्ञानस्य निरालम्बनत्वस्वीकारे शून्यवादस्य वा विज्ञानवादस्य वा समर्थनं भवेत् । अथ सालम्बनत्वमननेऽपि तस्याऽऽलम्बनस्याऽसत्त्वाङ्गीकारे चाऽसत्ख्यातिस्तत्पुच्छ विलग्नः शून्यवादश्चाऽऽपतत्येव । आलम्बनस्य सत्त्वे च भ्रमज्ञानानुपपत्तिरिति तैर्मार्गान्तरमाश्रितं यद्