SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भ्रमज्ञानस्याऽऽलम्बनं यद्यपि सदेव, तथापि तद् न लौकिकं, प्रत्युताऽलौकिकम् । तत इदं फलितं यद् रजतरूपेण प्रतिभासितायां शुक्तौ रजतसाध्याया अर्थक्रियाया अभावो न रजतासत्त्वहेतुकः, अपि तु रजतस्याऽलौकिकतैव तत्र कारणीभूता । इमान्यलौकिकख्यातेरनभ्युपगमकारणानि - १. न ह्यलौकिकत्वस्य निर्वचनं शक्यते । व्यवहारेऽसमर्थत्वं नैवाऽलौकिकताप्रयोजकं सम्भवति । यतोऽर्थोऽसद्भूतो भवेदलौकिको वा, अर्थक्रियाकारित्वाभावस्तूभयत्राऽपि समान एवेति को वा भेदस्तत्राऽवशिनष्टि येनोभयोः पार्थक्यं विधीयेत ? । तथा चाऽलौकिकख्यातेरसत्ख्यातेश्चाऽभिधानादृते न कोऽपि भेदः । २. शुक्तौ रजतभ्रमो यस्य पुरुषस्य, स त्वलौकिकं रजतं लौकिकमेवाऽभ्युपगम्य तत्र प्रवर्तते । प्रवृत्तेर्वैफल्ये एव तस्याऽलौकिकताबोध इति कथं नेयमन्यथाख्यातिः ? ३. पश्चाद्भाविना 'नेदं रजत'मिति ज्ञानेन किं नु बाध्यते ? नैव रजतसामान्यं, शुक्तिस्थले सदैव तस्य सत्तायाः स्वीकारात् । न च लौकिकरजतत्वं, बाधकप्रतीत्या लौकिकत्वस्याऽविषयीकरणात् । अतोऽलौकिकख्यातौ बाध्यबाधकभावानुपपत्तिरिति । ८. रामानुजाचार्यादीनां सम्मता विभिन्नाः सत्ख्यातयः रामानुजाचार्यादीनां वेदान्तिनां मते साङ्ख्यानामिव सर्वत्र सर्वदा सर्वेषां सत्त्वोररीकरणाद् ज्ञानमात्रं परमार्थतोऽभ्रान्तमेव भवति । व्यावहारिकभ्रमेऽपि वस्तुतः सद्भूतस्यैव ज्ञप्तितः 'सत्ख्याति'रुच्यते तत्र । व्यावहारिकस्य भ्रान्ताभ्रान्तविवेकस्य सङ्गतिस्तैरित्थं प्रदर्शिता - रामानुजाचार्याः - 'शुक्ति'रिति नाम्ना व्यवह्रियमाणेऽर्थे शुक्तिकांशवद् रजतांशा अपि सन्त्येव । केवलं शुक्तिकांशानां बाहुल्यात् तस्य 'शुक्ति रित्यभिधानम् । अतः शुक्ता विदं रजत'मिति ज्ञानस्य तत्रस्थानां रजतांशानां ग्राहकत्वाद् यथार्थत्वमेव । तथापि तस्य मिथ्यात्वं लोकेऽङ्गीक्रियते, यतस्तस्मिन् ज्ञाने चक्षुरादीनां दोषवशात् केवलं रजतांशानां दर्शनं जायमानमस्ति, शुक्तिकांशानां बाहुल्येऽपि न तत्र तेषां ग्रहो भवतीति । अनन्तरकाले दोषनिवृत्तौ जातायां, शुक्तिकांशानां दर्शने तेषां बाहुल्ये च ज्ञाते सती'यं शुक्ति'रिति प्रत्ययो जायते रजतज्ञानं च निवर्तते । मध्वाचार्याः - शुक्ता विदं रजत मिति प्रतीतेरुत्तरकाले जातेन शुक्तिज्ञानेन बाधमनुभूय रजतज्ञानं निवर्तते. 'असद् रजतं पूर्व प्रतिभात'मिति बोधश्चोत्पद्यते । यद्यप्यनेन बोधेनाऽसता रजतेन चक्षुषः सन्निकर्षः सिद्ध्यति, परं न स स्वीकारार्हः, असत्ख्यातिभयादसतो भानस्याऽस्वीकारात् । किं तर्हि ? वस्तुतस्तत्र सद्भूतया शुक्त्यैव चक्षुषः संसर्गः, केवलं दोषवशात् तस्य तत्राऽसद्भूतरजतस्वरूपेणाऽवगाहनं ५२
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy