SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ "न, भवता कदा उत्तरं दत्तम् ? " चिन्तकः साश्चर्यमुक्तवान् । " तर्हि शृणु, पूर्वं षण्मासपर्यन्तं त्वया वृक्षस्याऽध उपविश्य निरन्तरं चिन्त्यते स्म - 'हे वृक्ष ! त्वं शुष्को भव, पर्णविहीनो भव' इति । तव निरन्तरविचारबलाद् वृक्षः शुष्कतामयात् । पश्चात् षण्मासपर्यन्तं त्वया दिवानिशं चिन्तितम् – 'हे वृक्ष ! त्वं पूर्णतां प्राप्नुहि । फलवान् पर्णवान् भव' इति । तव शुभेच्छासद्भावबलाद् वृक्ष: पुनर्भव्यतामाप्नोत् । अहं सुखपूर्णोऽस्मि, तत्राऽपि इदमेव कारणमस्ति । अहं सर्वेभ्य आशीर्वादान् गृह्णामि । सर्वेषां कृपा प्राप्येत, ईदृशानि कार्याणि मया नित्यं क्रियन्ते । तैः सत्कार्यैः सर्वेषां सद्भावः मया लभ्यते, तथा चाऽहं सुखी अस्मि । देवगुरूणां महतां जनानां च कृपया, अन्येषां च सर्वेषामस्मान् प्रति सद्भावेनैव जीवनं सुखमयं भवति तत् कदाऽपि न विस्मर्तव्यम् ।" राजा तत्त्वमुक्तवान् । राज्ञो जीवनस्य सुखरहस्यं श्रुत्वा चिन्तकेनाऽपि नवं विशिष्टं चिन्तनं लब्धम् । (३) विस्मयदमौदार्यम् यस्य नाम्ना 'विक्रमसंवत्' इति व्यवहारे प्रसिद्धोऽस्ति, तस्य वीरविक्रमनृपस्याऽयं प्रसङ्गोऽस्ति । एकदा विक्रमराजो लवणसमुद्राधिष्ठायक-सुस्थितदेवस्य पूजनार्थं स्वस्य पुरोहितं प्रेषितवान् । पुरोहित: सुस्थितदेवस्य प्रसन्नतायै अष्टमतपः कृतवान् । अतो देवोऽतिप्रसन्नः सञ्जातः । देवेन विक्रमराजस्य प्रशस्ति कृत्वा उपहाररूपेण चत्वारि रत्नानि पुरोहितायाऽदीयन्त । रत्नानां फलमपि कथितम् - अभीष्टधनदमाद्यं, द्वितीयं भोज्यदं तथा । तृतीयं सैन्यदं तुर्यं सर्वभूषणदायकम् ॥ इति । अतः सर्वरत्नानि बहुमूल्यानि आसन् । पुरोहितो राज्ञः पार्श्वे आगत्य सर्वरत्नानि नृपाय दत्तवान् तेषाञ्च फलान्यपि कथितवान् । तदा विक्रमनृपः प्राह " पुरोहित ! त्वं साधनां कृतवान्, तत इमानि रत्नानि वयं प्राप्तवन्तः स्म । तत एतेभ्योऽन्यतमद् रत्नं त्वमपि गृहाण ।" - नृपस्याऽतिनिर्बन्धात् पुरोहित एकं रत्नं स्वीकृतवान् । परं कीदृशं रत्नं ग्रहणीयमिति विषये स मूढतां प्राप्तवान् । पुरोहितोऽस्मिन् विषये विचारणार्थं सर्वरत्नानि गृहीत्वा गृहं गतः । तेन स्वजनेभ्यः सर्ववृत्तान्तः कथितः । अनुचिन्तनं स्वस्मै प्रथमं रत्नं ( धनदं) रुचितम्, पल्यै द्वितीयं रत्नं ( भोज्यदं) रुचितम्, पुत्राय तृतीयं रत्नं (सैन्यदं) रुचितम्, पुत्रवध्वै च तुरीयं रत्नं (सर्वभूषणदं ) रुचितम् । अतः कलहभयात् पुरोहितो राज्ञः पार्श्वे आगतः । सर्ववृत्तान्तं कथयित्वा पुरोहितः सर्वरत्नानां प्रत्यर्पणं कृतवान् । ८५
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy