SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ एडल्ट्रेशन्-पोल्युशन्रहितं नास्ति' - सोपहासमिव पण्डितवर्योऽवदत् । 'किं बहुना ? नोट ओन्ली मिल्क् अपि तु प्योर वोटर् अपि कुत्राऽपि नोपलभ्यते', 'हा...हा...हा...!' ।। _ 'किन्तु, एतादृश्याः प्रवृत्त्या रोधने केचनोपायास्त्वन्वेषणीया एव ननु !' – रिचार्डः कथितवान् । तच्छ्रुत्वाऽऽलोकरामोऽक्षिणी निमील्य विचारणं कृतवान्, सहसा च किञ्चित् परमं ज्ञानं स्फुरितमिव कथितवान् - 'यावद्धि एज्युकेशन्-सिस्टम्मध्ये चेन्जिस् न क्रियन्ते तावत् न किमपि पोसिबल् अस्ति' । ___ 'अहं तु मन्ये यद् भवादृशा भाषाविदस्तदनुयायिनश्च यावत् प्रदूषणमिदं विरुध्य विरोधाभियानं न कुर्युस्तावत् तु न किमपि सेत्स्यति' । तत उत्तिष्ठता रिचार्डेन साञ्जलि कथितं – 'पुनरपि यथानुकूल्यं पूर्वमेव ज्ञापयित्वा भवत्पाबें आगमिष्याम्यहं, यतोऽत्र सन्दर्भे इतोऽपि बहवः प्रश्नाः सन्ति मम, येषां निराकरणं स्वल्पकालीने मेलने नैव सम्भवेत्' । 'अरे भवान् एपोइन्टमेन्ट् गृहीत्वाऽवश्यमागच्छतु । परन्तु रिचार्ड ! लेट मी टेल् यू - भवान् इयत् परफेक्ट संस्कृतं वदति यत् आई वन्डर् अ लोट् !!', पण्डितवर्योऽवक् । 'आश्चर्यं तु ममाऽपि भवति महोदयाः ! यद् भवन्तः संस्कृतभाषायामियतः आङ्ग्लभाषाशब्दान् कथं सरलतया मेलयन्तीति ?' रिचार्डः पृष्टवान् । 'एतस्य रिझन् तु इदं यत्, अस्माकं इण्डियन्-जनानां फेवरिट डिश् अस्ति - खिचडी !!' - आलोकरामः सस्मितमुक्तवान् । 'भवतु भवतु, किन्तु यदाऽऽवां पुनर्मिलावस्तदा मां खिचडी-इत्यस्याऽऽङ्ग्लपर्यायं कथयन्तु' इत्युक्त्वा सहासं रिचार्ड: निर्गतः ।। हिन्दीमूलम् - गिरिराजशरण-अग्रवालः गूर्जरानुवादः - आशा-वीरेन्द्रः
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy