________________
संस्कृतानुसर्जनन्
चौलुक्यानां यस्मिन् सौरभजनकं यशःकुसुममाल्यम् । व्याप्तं दिगङ्गनानां सुरभीणि करोति शीर्षाणि ॥२२॥ वयसां मध्यमवय इव यथा सुमनसां च मालतीकुसुमम् । मुक्तिसुखं सौख्यानां यच्छेयो विश्वनगराणाम् ॥२३॥ नाऽक्षीणि चर्म येषां ज्ञानं तेषामपि ध्रुवं यमिनाम् । विकसन्ति यत्र नयनान्यन्येषां का कथाऽप्यस्मिन् ॥२४।। वचनं तावद्वचनं माहात्म्यं तावदेव माहात्म्यम् । तावद् गुणा गुरोरपि यावद् विबुधान्न वीक्षते यस्मिन् ॥२५।। हरिहरविधयो देवा यत्राऽन्येऽपि च वसन्ति देवेन्द्राः । एतेन खलु महिम्ना ह्यमरावत्यास्तिरष्कृतो महिमा ॥२६।। यत्राऽञ्जलिना कनकं कामं रत्नानि च ददाति धनिलोकः । कनकनिधिः परिपूर्णो रत्नागारोऽपि भाति सम्पूर्णः ॥२७|| तत्र हि कुमारपालो बाहौ संस्थापितावनीपालः । परिवारसुप्रतिष्ठोऽभूद् राजेन्द्रो धराधीशः ॥२८॥ भवदाज्ञानिर्माल्यं मूर्धनि कर्मो यथा ह्यनिर्माल्यम् । वयमत्र स्म इतीत्थं कथयित्वा यो नतोऽवनीपालैः ॥२९|| यदि दयिता ते लक्ष्मीः सकला पृथिवी च वल्लमा नित्यम् । तत्कि मयेति शेषान् कीर्तिर्यस्याऽगमदूरम् ॥३०॥ यो दुःशासनशत्रोरश्वत्थाम्नश्च रामशिष्यस्य । विश्रमितयशःप्रसरः स्वयशसा धरातले पूर्णे ।।३१।। वर्षानिषिक्तभूमौ विष्वग् मार्तण्डतेजसोऽरिघ्नः । राज्ये यस्य न कोऽपि निःसत्त्वो निःसहो वाऽऽसीत् ॥३२॥ गुणसुसमृद्धिः प्रकटा कलासमृद्धिः सदा तथा यस्य । यो मलयानिलकल्पो गुणिविपिनानां महासत्त्वः ॥३३॥ स्वप्ने वारणसेन्यं स्वप्नेऽपि च तुरगसाधनं यस्य । दत्तभयं पश्यन्तो दत्तकरा रिपुनृपा जाता ॥३४।। अङ्गारपक्वबिम्बीफलान्यदन्ति तत्पक्वकन्दाँश्च । तप्तललाटा रिपवो यस्य ललाटन्तपे तपने ॥३५॥
९७