SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सिंहः पञ्चास्य ! मूर्खनिवहेन मृगेन्द्रता ते दत्ता तया किमिति दृप्यसि तिष्ठ तूष्णीम् । नित्यं निहंसि हरिणान् शशकान् अशक्तान् कर्तव्यमिन्द्रपदलास्य ! न वेत्सि किञ्चित् ।।३३।। सिंह ! त्वमस्यखिलभूमितले प्रसिद्धो धैर्यं बिभर्षि सहजं विपुलं च शौर्यम् । प्राप्ता मृगेन्द्रपदवी भक्ता स्वशक्त्या त्वं चिन्तये विपदि लब्धुमभीतिमद्धा ॥३४॥ शुकः वाचस्त्वया त्वधिगताः कतिचित् प्रयत्नात् ताः प्रत्यहं रटसि न त्वयि नूतनोक्तिः । नार्यः स्तुवन्तु तव कौशलमप्रगल्भा नाऽऽर्यस्त्वभिज्ञमतिराद्रियते भवन्तम् ॥३५॥ ख्यातोऽसि हे शुक ! वचःकुशलत्वहेतोः श्लाघ्यश्च वर्णविभवो वपुषि त्वदीये । त्वां पालयन्ति सरसं नरपालदाराः धन्योऽसि मान्य ! तव नास्ति समो विहङ्गः ॥३६॥ हरिणः नित्यं तरक्षुवृकसिंहवनेचरेभ्यो बिभ्यत् कथञ्चिदिह जीवसि दीनचित्तः । क्षेत्रे चिखादिषसि सस्यमथाऽपि रङ्को लब्ध्वा प्रहारमभिधावसि कान्दिशीकः ॥३७।। निर्मत्सरोऽसि परितुष्यसि पल्लवैस्त्वं रूपेण दृप्यसि न, लुभ्यसि नैव रायैः । कञ्चिन्न निन्दसि न शंससि धूर्तराजान् धत्थस्त्वमेव हरिण ! क्षणिके प्रपञ्चे ॥३८॥ २३
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy