________________
व्याघ्रः
को वा गुणोऽस्ति बलिनोऽपि तव प्रशस्तो व्याघ्र ! प्रभूतपशुमारणमात्रवृत्तेः । कस्यापि नोपकृतये तव शक्तिरेषा भीतिं सृजस्यखिलजन्तुषु गर्जनैश्च ||२७|| व्याघ्र ! त्वमेव मम मानधनो विभासि त्वं याचसे न नृपतीन् मदघूर्णिताक्षान् । नित्यं मृगान् बहुविधान् स्वयमेव हत्वा त्वं पूरयस्युदरभाण्डमनभ्रमूर्धा ॥२८॥ रासभ:
किं वा फलं जगति रासभ! जन्मनस्ते किं साधितं तु भवता वहताऽत्र भारम् ? । कस्याऽपि वस्त्रमिह शुद्धमभूत् त्वदीयात् कार्यान्न ते शुचिवपुर्न च ते प्रशंसा ॥२९॥ हे रासभाऽसि सहनानिधिरत्र नित्यं वस्त्राण्यशुद्धिभरितानि नयस्यजस्रम् । शुद्धानि तानि पुनराहरसे प्रदोषे प्राप्तुं प्रशस्तिमिह नेच्छसि कर्मयोगी ||३०|| कोकिलः
हे कोकिल ! त्वमसि वञ्चकसार्थनेता न स्वात्मजानपि च पोषयसि श्रमेण ।
भूत्वाऽन्यपुष्ट इह मञ्जुलगानमात्रालोकान् प्रसाद्य लभसे विपुलां प्रशंसाम् ॥३१॥ प्राप्ते वसन्तसमये पिक ! गायसि त्वं स्वान्तं विनोदयितुमाह्वयितुं प्रियां वा ।
श्रुत्वा जनस्तव तु पञ्चमगानमारान् नानन्द्यते त्वमसि धन्यतमोऽत्र लोके ॥३२॥
२२