________________
प्रास्ताविकम्
भारतदेशे शिक्षणस्य विश्वविद्यालयानां परिस्थितिरस्माभिरवलोकिता । एतस्याः परिस्थितेः पर्यवसानं कुत्र जातमिति समीक्षामहे तावत् । जीनिवानगरे (स्विट्झर्लेन्ड) स्थितया संयुक्तराष्ट्रसङ्घस्य (UNO) शाखासंस्थया ज्ञापितं यत् २०१५तमे वर्षे भारतीयै: संशोधकैः केवलं १४२३ सङ्ख्याका नूतनसंशोधनाधिकारा: (Patents) पञ्जीकृता: । २०१४तमे वर्षे सा सङ्ख्या १४२८ मात्रमासीत् तथा २०१३ तमे वर्षे तु केवलं १३२० सङ्ख्याका एव नूतनसंशोधनाधिकारा भारतीयसंशोधकैः पञ्जीकृताः । अत्र या: सङ्ख्या: प्रस्तुता ताभिः केवलं मात्रमित्यादिभिर्वा शब्दैश्च भारतीयसंशोधनस्य दारिद्र्यं नैवाऽवगंस्यतेऽतस्तुलनार्थं केषाञ्चनाऽन्येषां राष्ट्राणामपि संशोधनक्षेत्रीयां परिस्थितिं पश्याम: - २०१५तमे वर्षे दक्षिणकोरियादेशस्य संशोधकैः १४६२६सङ्ख्याका: (भारतदेशाद् दशगुणिता:), चीनादेशस्य संशोधकैः २९८४६ सङ्ख्याकाः (विंशतिगुणिता:) तथा जपानदेशीयै: संशोधकैस्तु ४४२३५सङ्ख्याकाः (त्रिंशद्गुणिता:) नूतनसंशोधनाधिकाराः पञ्जीकृताः । २०१४ तमे वर्षे तु त्रयाणामपि देशानामनुक्रमेण १३११७सङ्ख्याकाः २५५४८ सङ्ख्याकाः ४२३८१ सङ्ख्याकाश्च संशोधनाधिकाराः पञ्जीकृता आसन् ।
संशोधनाधिकारा हि संशोधकेभ्य ऐदम्प्राथम्येनाऽऽविष्कृतानां यन्त्रादिसाधनानां कृते पञ्जीक्रियन्ते । कश्चन संशोधको नूतनं संशोधनाधिकारं (Patent) प्राप्तुं सफलस्तदैव स्यात् यदा स कठोरं बौद्धिकं परिश्रमं विविधान् वैज्ञानिकप्रयोगान्, दीर्घकालिकीं च तार्किकीं विचारणां कुर्यात् तत्फलत्वेन च नूतनं कञ्चिदाविष्कारं कुर्यात् । एवं च संशोधनाधिकारसङ् ख्या हि यथा देशस्य बौद्धिकधनेन सम्बद्धा तथैव वैज्ञानिकाभिगमेनाऽपि सुतरां
सम्बद्धा ।
जापान - चीना-दक्षिणकोरियासदृशराष्ट्राणां संशोधनाधिकारपञ्जीकरणे एतावत् साफल्यं किंमूलमिति चिन्तितं खलु ? तन्मूलमस्ति शालेयशिक्षणे । एतैरेतादृशैश्चाऽन्यै राष्ट्रैः स्वीयदेशस्य शालासु बाल्यादेव वैज्ञानिकाभिगमप्रवणं शिक्षणं प्रत्येकं विद्यार्थिना यथा प्राप्येत तादृशी प्रायोगिकी शिक्षणपद्धतिः स्वीकृताऽऽस्ति । एतद्विपरीततया वयं भारतीयाः केवलं (केवलं चैव) पाठ्यपुस्तकीयमभ्यासक्रममेवाऽऽश्रिताः स्मः । अन्यच्चाऽस्माकं देशे शिक्षणं सर्वथा वाणिज्यभूतं सञ्जातमस्ति । एतेन शिक्षणस्य स्तरः सर्वथाऽधोगतिं प्राप्तोऽस्ति । अपि च प्रायशः ६०% शालासु क्रीडादिकृते क्षेत्रादिव्यवस्था न भवति । विविधाभिः क्रीडाभिः खलु बालानां शारीरिको विकासो भवति येन च मन: स्वस्थं भवति फलतश्च स यथा पठने तथा वैयक्तिकजीवनेऽपि स्वस्थेन चित्तेन सर्वाण्यपि कार्याणि कर्तुं समर्थो भवति विपत्तौ च विकलतां नाऽनुभवति । किन्तु, एतत् सर्वं हि केवलं गुणाङ्कलक्ष्यायामर्थोपार्जनलक्ष्यायां च शिक्षणव्यवस्थायां को वा चिन्तयेत् ?
जानीमहे वयं यदेतत् सर्वमपि ह्यस्माकमरण्यरोदनमेवाऽस्ति । यावत् सर्वाऽपि व्यवस्था सर्वेषामपि पूर्णसहयोगेन मूलतः परावर्तिता न भवेत् तावत् न किमपि सेत्स्यति । एतदर्थं च सर्वैरपि सहैव 'उत्तिष्ठत जाग्रत निबोधत' इति क्रमेण प्रयतितव्यं पूर्णमनोयलेन, प्रयतिष्यामहे खलु ?
आश्विनशुक्ला प्रतिपत्, २०७२ महुवानगरम्
कीर्तित्रयी