________________
वाचकानां प्रतिभावः
सम्पूज्याः आचार्याः,
नन्दनवनकल्पतरोः पञ्चत्रिंशी शाखाम् अहं सानन्दं पठितवान् । प्रास्ताविकं पुनश्च विश्वविद्यालयानां स्थिति, तेषां मानदण्डान् च अधिकृत्य यदुक्तं तत् समीचीनमेवाऽस्ति । विश्वविद्यालयानां स्तराभिवर्धनं देशस्य पूर्णविकास लक्ष्यीकृत्यैव भवेत् ।
तत्रत्य: निक्षेपविचारस्तु कठिन एवाऽऽसीत् । मुनिधर्मकीर्तिविजयानां "पत्रे" इतिहासविदः ग्रन्थात् उद्धृता “यस्याः संस्कृत्याः मूले दया, तप:श्रीः च विद्यते सैव संस्कृतिः चिरञ्जीविनी भविष्यति" इति पङ्क्तिः प्रचोदिका आसीत् । अस्यैव पत्रस्य प्रथमखण्डिकायां "बहवो जनाः संमीलिता भविष्यन्ति" इति यद् मुद्रितं तत् “संमिलिताः भविष्यन्ति" इति परिवर्त्य पठितम् । मुनिधर्मकीर्तिविजयानामेव मराठीकवितानुवादः सामोदं पठितः ।
श्रीजिनदासश्रेष्ठिकथा पुनरेकवारं पठनाय रक्षिता चास्ति । आस्वाद्य पठनीया सा । सर्वाः रचनाः उत्कृष्टाः । धन्यवादः ॥
- रवीन्द्रः, पालक्काडु, केरल.
मान्याः
सादरं प्रणतयः ।
नन्दनवनकल्पतरोः ३६ तमोऽङ्कोऽधिगतः । पत्रिका सततं जैनदर्शनसाहित्यादि विषयान् समुद्भावयन्ती संस्कृतसाहित्यसम्पदं नितरां संवर्धयति - इत्यत्र नास्ति संशयलेशः । 'सङ्कचितः कः?' इति लेखः प्रभावयति जैनसमुदायस्यौदार्य च प्रदर्शयति ।
'भगवान् श्रीकृष्णो वैदिकधर्मे भगवतः पूर्णावतारो दिव्यतमः सर्वशक्तिसम्पन्नश्च । 'दिव्यातिदिव्य-नेमिकुमारः' इति कथायां तस्य दिव्यतमता क्षीणा दृश्यते । मम मतौ - अत्र जैनसमाजस्योदारता क्षीणतां गताऽस्ति । कस्यचिद् धर्मस्याऽवताराणां महापुरुषाणां वा दिव्यत्वं नैवोपेक्षणीयम् । जयति संस्कृतं संस्कृतिश्च ॥
- रूपनारायण - पाण्डेयः, प्रयागः . १ मील्-धातुरपि धातुपाठे वर्तत एव । अतः संमीलिता इति रूपमपि साध्वेव।
*जैनसमाजो नन्दनवनकल्पतरुर्वा न कस्याऽपि धर्मस्य महापुरुषाणां भगवदवताराणां वोपेक्षामनादरं वा करोति । नेमिकुमारो जैनपरम्परायां द्वाविंशस्तीर्थकरः श्रीकृष्णस्य च लघुभ्राताऽप्यस्ति । तीर्थकराणां सामर्थ्यमनुपमं भवतीति प्रदर्शनमेवाऽस्याः कथाया आशयोऽस्ति न पुनः श्रीकृष्णस्य दिव्यतमतां क्षीणां दर्शयितुमाशयो नः । अतः कृपया जैनसमाजस्योदारतां विषयीकृत्य न किञ्चिद्वक्तव्यम् । जैनसमाजो हि समत्वस्य समन्वयस्य च नीतिमाश्रितोऽस्ति सर्वदा । (सं.)