SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ रामः राम ! त्वदीयचरितं नहि रोचते मे रामां त्वदेकशरणाम् अजहाः कथं त्वम् ? । तां गर्भिणीं वनभुवि त्यजतो मनस्ते जातं नु वज्रकठिनं ? वद देव ! सत्यम् ॥३॥ राम ! त्वमेव मम दैवतमित्यवैमि त्वत्तो न कश्चिदपरो गुणवत्तरोऽस्ति । सत्यव्रतो दृढवचाः सुगुणानुरागी धर्मप्रियो जगति कोऽस्ति भवादृशोऽन्यः ॥४॥ लक्ष्मीः लक्ष्मीन कं मदयति प्रथमं प्रसन्ना कं वा न शोचयति दूरमियं प्रयाता । चाञ्चल्यशेवधिरहो नहि सौख्यहेतुनिन्द्येति वेत्ति मतिमान् बहुधा परीक्ष्य ॥५॥ लक्ष्मी विना भवति ना शवतुल्यतेजास्तां प्राप्य राजति यथा निशि पूर्णचन्द्रः । लक्ष्मीवतो जगति गौरवमानपूजास्तस्यैव कीर्तिरतुला विमला विशाला ॥६॥ विजेश्वरः विघ्नेश्वर ! त्वयि कथं न वदामि दोषं विघ्नान् करोषि सकले किल कार्यकाले । पूजां चिकीर्षति जनस्तव चेत्तदापि । प्रत्यूहमत्र जनयस्युचितं किमेतत् ॥७॥ उत्पाद्य विघ्नमिह गर्विजनस्य दर्प तूर्णं हिनस्सि विनयं जनयस्यजस्रम् । सन्मानुषस्य कुरुषे खलु नाऽन्तरायं विघ्नेश्वराऽस्तु मयि ते करुणा सदाऽपि ॥८॥
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy