________________
आस्वादः
श्रावकधर्ममीमांसा
चतुरशीतिलक्षाणि जीवानां सन्ति जातयः ।
तासु जातिषु सर्वासु मानुष्यमतिदुर्लभम् ॥१॥ अत एव मानुष्यं लब्ध्वा तत्राऽपि श्रावकत्वं श्रेष्ठतरं, तत्राऽपि जिनधर्मो देवगुरुभावयुक्तः, तत्राऽपि ज्ञानदर्शनचारित्ररूपरत्नत्रययुक्तं, तेष्वपि जिनेन्द्राणां तीर्थं प्रति पूर्णभावनायुक्तमनसा सङ्घयात्रया गमनं, जिनेश्वराणां प्रासादप्रतिष्ठाकरणं, ततः पूजनसत्कारेण स्वहृदयं परमनिर्मलं कृत्वा सद्गुरोः सकाशाद् विधिवत् प्रव्रज्यामङ्गीकृत्य गुर्वाज्ञया जिनशास्त्राणां तत्त्वं सरहस्यं ज्ञात्वा जिनेन्द्राणां स्वरूपमनुभूय तस्मिन् स्वात्मानमेकीकृत्य यदा केवलज्ञानं प्राप्नोति तदा मानुष्यं श्रावकत्वं च सफलं भवति । किन्तु तत्सर्वं सद्गुरुकृपयैव भवति, न त्वन्यैः साधनैरिति ।
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । जिननिष्ठं जिनभक्तं प्रणिपातपुरस्सरम् ॥१॥ अहिंसा सत्यमस्तेयं दयादानश्च पूजनम् । श्रद्धाऽऽस्तिक्यं क्षमाशक्तिर्देवशास्त्रे गुरावपि ॥२॥ गुर्वाज्ञापालनं नित्यं सदा देवस्य पूजनम् ।। यतीनां दानमानञ्च सत्कारः शुद्धभावतः ॥३॥ सदाचारवता भाव्यं जीवानामप्यहिंसकः । विद्याविनयसम्पन्नः पञ्च प्रतिक्रियां चरेत् ॥४॥ यात्रां प्रतिष्ठां चैत्यं च सदाचरणतत्परः । जिनोत्सवं प्रकुर्याच्च दयां सर्वेषु जन्तुषु ॥५॥ वित्तार्पणं देवगुरौ वैराग्यं सर्वजन्तुषु । जिनेन्द्रं हृदि संस्थाप्य निर्मलीकृत्य मानसम् ॥६