________________
इत: ख्यातयः क्रमशो निरूप्यन्ते - १. माध्यमिक-सौत्रान्तिकसम्मताऽसत्ख्यातिः
यस्मिन् ज्ञाने यत् प्रतिभासते तदेव तस्याऽऽलम्बनमिति स्वीकरणे प्रश्न उद्भवति यत् - भ्रमज्ञाने प्रतिभासमानं वस्तु ज्ञानात्मकं भवत्यर्थात्मकं वा ? न ज्ञानात्मकं तत् सम्भवति, यतस्तस्य ज्ञानात्मकत्वे, ज्ञानं स्वमेव तथारूपेण गृह्णातीति भ्रमप्रत्ययः 'अहं रजत मिति भवेद्, न तु 'इदं रजत मिति, न चैवमनुभव इत्यर्थात्मकमेव तदालम्बनमङ्गीकर्तव्यम् । अथ च भ्रमज्ञानस्य विषयीभूतः स बाह्यार्थो नैव सन्, तत्साध्याया अर्थक्रियायास्तत्राऽभावात् । अतः पारिशेष्याद् भ्रमस्थले वयमसत एव बाह्यार्थस्य बोधं कुर्महे इत्युररीकरणीयम् । इयमेव 'असत्ख्याति:' उच्यते ।।
अयं स्वीकारो माध्यमिकानामुभयथा लाभदायी समस्ति । तथाहि - ज्ञानं सालम्बनमिति कथयित्वाऽपि यदि ते भ्रमज्ञाने कमपि सन्तं बाह्यार्थं विषयीभूतं न मन्वते तर्हि निरालम्बनवाद एवैवं फलितः, यश्च वस्तुतो तेषामभीष्टः । अन्यच्च, असतोऽपि ज्ञानं भवतीति मनने, 'प्रमाणबलेन प्रमेयव्यवस्था' इति नियमनिषेधे सति, स्वयमेव शून्यवादः सिद्ध्यति ।
अयमत्र सारः - माध्यमिकाः सर्वमपि शून्यमसद् निःस्वभावं चैवाऽनुमन्यन्ते । ते प्रथमतः सर्वेषां व्यावहारिकी सत्तां स्वीकृत्य तानि परीक्षन्ते, अन्ततश्च तेषां सर्वेषां पारमार्थिकमसत्त्वं प्रदर्श्य तद्ग्राहकानां निखिलानां ज्ञानानां वैपरीत्यं समुद्घोषयन्ति । ज्ञानेषु यो भ्रान्ताभ्रान्तविवेको भवति, स केवलं व्यावहारिकसत्तामूलकः । पारमार्थिकदृष्ट्या तु निर्विकल्पकज्ञानादृते सर्वाण्यपि सविषयकज्ञानान्यसद्ग्राहकत्वेन भ्रमात्मकान्येव ।
वस्तुतो माध्यमिकानां दृष्टौ शुक्तरसत्त्वात्, तत्र शुक्तिज्ञानं भवेद् रजतज्ञानं वा, उभयस्याऽसदालम्बनत्वेन भ्रमत्वमेव । असत्प्रकाशनशक्तिमत्या अनादिवासनायास्तयोरुद्भवः । यदा वासनातो विपरीतसंवादजनकमसत्प्रकाशनं भवति, तदा व्यवहारे स 'भ्रमः' गण्यते, अन्यथा सम्यक्संवादकमसत्प्रकाशनं व्यावहारिकसत्यत्वपरीक्षया 'प्रमा' उच्यते । परमार्थतस्तु सर्वज्ञानानि 'भ्रम' एव ।
असत्ख्यातेः खण्डनेऽन्यथाख्यातिवादिभिरिमा तर्कपरम्परा समुपन्यस्ता -
१. न ज्ञानेऽसतः प्रतिभासः । इदमेव वस्तुनोऽसत्त्वं यत् प्रतीत्यनालम्बनत्वम् । नो चेत्, कथं न शशशृङ्गस्य प्रतिभासः ? शून्यवादे शशशृङ्गस्य शुक्तेश्चाऽसत्त्वे समाने सत्यपि, एकस्य प्रतिभासार्हत्वमन्यस्य च तदनर्हत्वमिति कथम् ?