________________
कथा
विश्लानि संस्कारमूल्यानि
__- मुनिअक्षयरत्नविजयः
(१) दुर्लभं मानुष्यम् मानवजीवनस्य मूल्यमनल्पमस्ति । यतो मानवजन्म दुःखेन लभ्यते । जैनशास्त्रकर्ता पूर्वधरमहर्षिर्भगवानुमास्वातिर्मानवजीवनस्याऽनल्पं मूल्यं दर्शयति प्रशमरतिग्रन्थमध्ये 'भवकोटिभिरसुलभं मानुष्यम्' इत्यनेन सूक्तेन ।
उत्तमं द्रव्यं यदि प्राप्यते, तर्हि तस्योपयोगेनाऽपि उत्तमेनैव भवितव्यम् । अतो प्रशस्यतमं मनुष्यजन्म प्राप्य तस्योपयोगोऽपि मोक्षसाधनादिभिः शोभनतया कर्तव्यः । परन्तु, अस्मिन् युगे जनैस्तस्योपयोगो भोगतृष्णापूर्त्यर्थं धनप्राप्त्यर्थं चाऽधिकं क्रियते ।
जगत अस्या मनःस्थितेः परिवर्तनाय रशियादेशीयः 'टोल्स्टोयः' इति नामकश्चिन्तकः प्रेरणास्पदा कथामालिखति -
एकदा नगरस्य राजा तस्मै पुरुषायैकमभीष्टं वरं दत्तवान् । स्वभावतो लोभी स जनो यथावरं द्वितीयदिने सूर्योदयादारभ्य निश्चितरेखाबिन्दोरधावत् । सूर्यास्तपर्यन्तं वर्तुलाकारेण यावत्सु क्षेत्रेषु स धावेत्, तावतः क्षेत्रस्य स्वामितां तेन प्राप्येत, इति वरदानं राज्ञा तस्मै दत्तमासीत् ।
मध्याह्नपर्यन्तं स लोभी जनः सरलायामेनाऽधावत् । निरन्तरं द्रुतगत्या स क्लान्तोऽभवत् । मनाग् विरामेण स पुनः वर्तुलाकारेण रेखाबिन्दुं प्रत्यधावत् । परमधुना सूर्योऽतितप्त आसीत् । निरन्तरं गमनेन तस्य शरीरशक्तिरपि क्षीणा सञ्जाता । तथाऽपि लोभेन स सततमधावत् । सूर्यास्तसमयोऽत्यल्पः शिष्ट आसीत्, तदा स लोभी निश्चितरेखाबिन्दोरतिदूरस्थ आसीत् । अतो नेत्रे निमील्य शक्तिहीनोऽपि सोऽतिद्रुतगत्याऽधावत् । अतस्तस्य प्राणगतिरतिशीघ्रा सञ्जाता । सूर्यास्तसमये सति महाकष्टेन निश्चितरेखाबिन्दु स्पृष्ट्वा स जनो दण्डवत् भूमौ पतितवान् ।