________________
तत्त्वबोधप्रवेशिका-२
ख्यातिवादः
- मुनित्रैलोक्यमण्डनविजयः
अप्रमाणभूतं ज्ञानं त्रिविधं सम्भवति : १. संशयः २. अनध्यवसाय: ३. विपर्ययश्च । तत्र तृतीयमप्रमाणात्मकं ज्ञानं 'विपर्ययः, मिथ्याज्ञानम्, अतत्त्वज्ञानम्, भ्रमः, भ्रान्तिः, विभ्रमः, व्यभिचारिज्ञानम्, ज्ञानाभासः, अप्रमा' इत्यादिभिरनेकाभिरभिधाभिर्व्यवहियते । तत् पुनर्द्विप्रकार सम्भवति : १. पारमार्थिको भ्रमः २. व्यावहारिको भ्रमश्च ।
तत्र परमभ्रमस्य सर्वैरपि दार्शनिकैरभ्युपगमे कृतेऽपि, तस्य काचिद् निश्चिता व्याख्याऽसम्भविनी । यतः प्रत्येकं दर्शनस्य मतेन तस्य स्वरूपस्य भिन्नत्वात्, तस्य सर्वसामान्य लक्षणं नैव लक्ष्यते ।
अयमत्र भावः - सर्वैरपि दार्शनिकैः स्वस्वदृष्टिरुच्यनुरूपं तत्त्वं विवेचितम् । ततः परस्परं विभिन्नस्य तत्त्वनिरूपणस्य मिथः सङ्घर्षः स्वाभाविकः । अपि च सर्वेऽपि दार्शनिकाः स्वकीयं निरूपणमेवैक मात्रसत्यरूपेणाऽनुमन्यन्ते । अन्यत् किमपि तेषां दृष्टौ सत्यव्यतिरिक्तमेव भवति । अतः प्रत्येकस्मिन् दर्शने, स्वस्याः तत्त्वनिरूपणाया अनुसारी बोधः 'सम्यग्ज्ञानं', परेषां सर्वेषां तत्त्वविवेचना च ‘परमभ्रमः' - इति विषयव्यवस्था समस्ति ।
दृष्टान्तरूपेण पश्यामश्चेत् - नैयायिकादयः कथयन्ति यद् द्रव्य-गुणयोर्भेदज्ञानं हि तत्त्वज्ञानम्, तद्विपक्षतया अद्वैतवादिनस्तु तद् भेदज्ञानमेव परमं मिथ्याज्ञानं परिगणयन्ति, द्रव्य-गुणयोरभेदावगतिरेवाऽद्वैतवादे तत्त्वभूता । एवञ्चाऽयं परमभ्रम: प्रस्थानभेदेन भिन्नः ।
अस्मिन् विषये जैनदर्शनस्य मन्तव्यं सर्वथा भिन्नम् । यद्यपि जैनमतेऽपि परमभ्रमस्याऽस्तित्वं स्वीकृतमेव । तेन भ्रमेण भ्रान्तं पुरुषं जैना 'मिथ्यात्वी' इत्येव परिगणयन्ति । न केवलं तावद्, जैनमते तादृशस्य मिथ्याज्ञानस्य निरासमन्तरेण मुक्तिमार्गे प्रस्थानमेव न सम्भवति । तथाऽपि दर्शनान्तरे निरूपितात् परमभ्रमस्वरूपाद्, जैनमते सम्मतस्य परमभ्रमस्य स्वरूपे महदन्तरम् । अन्यानि सर्वाण्यपि दर्शनानि दर्शनान्तरसम्मतां तत्त्वविभावनां मिथ्याज्ञानमिति प्ररूपयन्ति, परं जैनदर्शनं तेषां 'स्वव्यतिरिक्ताः