________________
हाईकु काव्यानि
- डो. कान्ति गोर
अस्तो मरीचिः पुलकितो तडागः रुदति जनः
तमसा ग्रस्तं जीवन-यानमिदम् सुप्तो यात्री
शृणोमि मम जगतः दृष्ट्यर्थं हि मौनमिदं यत्
अन्नं पुष्यति शरीरं, कः पुष्णाति अस्माकं मनः !
आचार्यो नाम्ना वणिग् व्यवहारेण विद्यागमः क्व ?
तमसि लीना जीवननौका ह्येषा शेते नाविकः
शमेव दत्ते वचनकटुत्वेऽपि स एव साधुः
मनोऽभिलाषा हि धर्माविरुद्धा ददाति मुक्तिम्
नाऽर्थो हि कन्या परकीयसम्मता पितुर्धनं सा
पाषाणार्पिता श्रद्धा हृदयभाषा न बुद्धिगम्या
न कोऽप्यर्थोऽस्ति नीतिहीनेन पथा प्राप्तेरर्थस्य
वामाङ्गे स्थिता धर्मेणाऽऽनीता परं वर्तने वामा
सुदर्शन, १२, एन, आर. आय. सोसायटी,
श्रीजी नगर, पो माधापुर भुज (कच्छ) ३७००२०.