________________
ઉપદેશપદ : ભાગ-૧
૨૮૫ भावात् । दृष्टादृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावश्च स्यात् । इति केवलनियतिवादोऽपि न श्रेयान् ॥३॥
जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगवैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः-"यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्त्तते ॥१॥"असदेतत् , कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टकारणप्रकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगवैचित्र्यकारणमुपपद्यते, तस्य कर्बधीनत्वात् । न चैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत्, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात् । अनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष-काल-स्वभावादेरपि जगद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात् । इति कमैकान्तवादोऽपि न विचारसहः ॥४॥ __ अन्ये तु वर्णयन्ति-पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयः । तथा चोक्तं "ऊर्णनाभ इवांशूनां, चन्द्रकान्त इवाम्भसां । प्ररोहाणामिवप्लक्षः, स हेतुः सर्वजन्मनाम् ॥१॥" इति ॥एतदपि न घटते, यतः प्रेक्षापूर्वकारिणां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, अतः किं प्रयोजनमुद्दिश्यायं जगत्करणे प्रवर्त्तते ? नेश्वरादिप्रेरणात्, अस्वातन्त्र्यप्रसक्तेः; न परानुग्रहार्थम्, अनुकम्पया दुःखितसत्त्वनिवर्त्तनानुपपत्तेः । न तत्कर्मप्रक्षयार्थं, दुःखितसत्त्वनिर्माणे प्रवृत्तेस्तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थं तन्निर्माणप्रवृत्तावप्रेक्षापूर्वकारितापत्तेः । इति नैतद्वादोऽपि विदुषां मनोमोदावहः ॥५॥
अतो न कालाद्येकान्ताः प्रमाणतः सम्भवन्तीति तद्वादो मिथ्यावाद इति । त एवान्योऽन्यसव्यपेक्षा नित्यायेकान्तव्यपोहेनैकानेकस्वभावकार्यनिर्वर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तद्वादः सम्यग्वाद इति स्थितम् ॥१६४॥
આ પ્રમાણે બુદ્ધિ અનેક કારણોવાળી કેવી રીતે થઈ એવી આશંકા કરીને બધાંય કાર્યો કાળ વગેરે અનેક કારણોથી ઉત્પન્ન થાય છે એમ બતાવતા ગ્રંથકાર કહે છે–
ગાથાર્થ- કાળ, સ્વભાવ, નિયતિ, પૂર્વકર્મ અને પુરુષાર્થ આ બધાંય કારણો એકલા મિથ્યાત્વને સ્વીકારે છે, તેથી જ પરસ્પર નહિ છોડવાની વૃત્તિવાળા બનીને ભેગા થયેલાં તે બધાંય કારણો સમ્યકત્વને સ્વીકારે છે.
ટીકાર્થ- અહીં તાત્પર્યાર્થ આ પ્રમાણે છે- કાળ વગેરેને એકલા (એક એક સ્વતંત્ર) કાર્યના કારણ માનવા એ મિથ્યાત્વ (Fખોટું) છે અને અન્ય કારણોની સાથે સામગ્રીઘટકના રૂપમાં સહકારી કારણ માનવા એ સમ્યકત્વ (=સાચું) છે.