Book Title: Updeshpad Granth Part 01
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
४६६
6५ श५६ : माग-१ ___उक्तं च-देव इह मञ्जूषायां सर्वसारं तिष्ठति । राजा-किमनेन सर्वसारेण त्वद्व्यसनपाते सति कार्यम्? मंत्री-तथापि देव पक्षमेकं 'रक्षयत' रक्षां कारयत । ततो राज्ञा द्वारान्यतालशीर्षमुद्रास्तथा 'अट्ठट्ठ'त्ति अष्टौ दिनेऽष्टौ निशि प्राहरिका निरूपिताः ॥३३४॥
एवं व्यवस्थापिते त्रयोदशे च दिवसे राज्ञो दुहितुरकस्मादेव वेणिच्छेदो जातः । इत्येतन्मन्त्रिसुतात् किलेति जनप्रवादात् स्फुटितं प्रकाशीभूतं रोदने दुहितुः स्वयमेव दृष्टे राज्ञो जितशत्रोर्महाकोपः समजनीति ॥३३५॥
भणितं च तेन यथा घातयत 'तकं' मन्त्रिसुतमथवा किमनेनैकेन घातितेन 'सर्वाण्येव' मन्त्रिमानुषाणि 'दहत' भस्मीकुरुत । येनोन्मत्तकान्येतानि वर्तन्त इति । ततः किंकरगमो मन्त्रिगृहे । ग्रहणं कुटुम्बस्य प्रारब्धं । भण्डना च मन्त्रिपरिवारेण सह लग्ना । मन्त्रिणोक्तं प्रेक्षामहे तावद्देव ! इति ॥३३६॥
दृष्टे चात्र राज्ञि मन्त्रि प्राह-योगाद् मञ्जूषासम्बन्धात् समुद्घाट्येत्यर्थः । तत्त्वं मत्पुत्रकृतोऽन्यकृतो वाऽयमनर्थ इत्येवंलक्षणं 'जानीहि' समवबुध्यस्व स्वात्मनैव । ततो गतो राजा मञ्जूषोद्घाटनार्थम् । दृष्टायां च तस्यां मुद्रासंवाद उद्घाटने कृते सति निरूपणानि भालना यावत् क्रियते, तावत् क्षुरिकायुक्तया वेण्या समुपलक्षितो मन्त्रिसुतो दृष्टः ॥३३७॥
साध्वसं भयं तद्दर्शने किमिदमित्थमसंभाव्यं दृश्यते । एवं मीमांसयितुमारब्धे मन्त्रिणोक्तं देवो. जानाति तत्त्वं योऽस्या रक्षकत्वेन व्यवस्थित इति । तस्माद् विस्मयस्त्वाश्चर्यं च सर्वेषामहोऽदृष्टाऽश्रुतपूर्वमिदमिति । ततः 'तत्पुच्छ 'त्ति मन्त्रिपृच्छा, पूजना च तस्य राज्ञा कृता । मन्त्रिणोक्तं-देव! सर्वनाशस्ते पुत्राद् भविष्यतीति एतावदेव नैमित्तिकादुपलब्धं नो वेणिच्छेदादिति ॥३३८॥
इतस्त्वेतस्मादेव नैमित्तिकवचनात् किलेत्याप्तप्रवादरूपात् प्रवृत्तोऽत्र पुत्रसंगोपनेऽहं यावत्तावदेतद् नैमित्तिकोक्तं संवृत्तम् । इतिरर्थपरिसमाप्तौ । अथ निगमयन्नाह-एवमुक्तनीत्याऽचिन्त्यमचिन्त्यसामर्थ्य कर्म यदित्थं विहितप्रतीकारमपि फलाय समुपस्थितम् 'वीर्यमपि च' पराक्रमोऽपि बुद्धिमतोऽचिन्त्य एव य इत्थं समुपस्थितमपि कर्म विफलीकरोतीति ॥३३९॥॥
॥ समाप्तं ज्ञानगर्भोदाहरणम् ॥

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554