Book Title: Updeshpad Granth Part 01
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 514
________________ ૪૬૫ 64हे श५६ : माग-१ मंजूसाए पक्खस्स भोयणं पाणगं च ताला य । अत्थं साहर रण्णो, भणणमणिच्छे तयाणयणं ॥३३३॥ देव इह सव्वसारं, किमणेणं पक्खमेगरक्खावे । दारण्णतालसीसगमुद्दा अट्ठट्ठ पाहरिया ॥३३४॥ तेरसमम्मि य दियहे, रणो धूयाए वेणिछेओत्ति । मंतिसुया किल फुटुं, रुवणे रण्णो महाकोवो ॥३३५॥ घाएह तयं अहवा, सव्वेच्चिय डहह मत्तगा एए । किंकरगम गेण्हण भंडणाय पेच्छामु देवत्ति ॥३३६॥ दिट्ठिम्मि एत्थ जोगा, तत्तं जाणाहि मुद्दसंवाओ । उग्घाडणे णिरूवण, छुरियावेणीय मंतिसुओ ॥३३७॥ सज्झस किमिदं देवो, जाणइ तह विम्हओ उ सव्वेसिं । तप्पुच्छ पूयणा सव्वणास णो वेणिछेयाउ ॥३३८॥ एत्तो उ किल पयट्टो, एत्थाहं जाव एवमेव त्ति । एवमचिंतं कम्मं, विरियपि य बुद्धिमंतस्स ॥३३९॥ अथ संग्रहगाथागमनिका-वेसाली नगरी, जितशत्रू राजा, सचिवस्तु ज्ञानगर्भस्तस्य । अन्यदा सभास्थस्य राज्ञो 'नेमित्तागम'त्ति नैमित्तिकागमने पृच्छा राज्ञोऽभूत् । 'अत्थक्वत्थाणि' इति अतिकुतूहलपरतया अनवसरे आस्थाने सभायां किं सुखं दुःखं वा कस्यापूर्वं भविष्यतीति ॥३३०॥ नैमित्तिकः प्राह-मंन्त्रिणो मारीपतनं । राजा-कदा? नैमित्तिकः-पक्षादारत इति । ततस्तूष्णीका बद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'मंतिनिग्गम'त्ति तत आस्थानाद् निर्गमे कृते मन्त्रिणा काले प्रस्तावे नैमित्तिकाह्वानमकारि स्वगृहे ॥३३१॥ ततः 'पइरिक्के' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः-सुतदोषात् प्रत्ययस्तव कुस्वप्न इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशननिषेधरूपा च कृता। 'संवायत्ति' संवादे स्वप्नस्य 'पुत्तमालोय'त्ति पुत्रेण सहालोचनं विधाय निरोधः कृतस्तस्य ॥३३२॥ क्वेत्याह-मञ्जूषायां तथा पक्षस्य भोजनं पानकं च पुत्रनिमित्तं निरूपितं । तालाश्च' तालकानि दत्तानि । ततो मन्त्रिणा अर्थं 'संहर' स्वीकुर्विति राज्ञो भणनमकारि। अनिच्छे नृपतौ कथञ्चिदुपरुध्य 'तदानयनं' मञ्जूषानयनं राजकुले कृतम् ॥३३३॥

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554