Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ४ ]
॥ विवृतिः ॥
यद्यपि सूत्रकारैर्द्रव्यत्वादिनैव पदार्थविभजनं विहितं न तु भावत्वादिना तथापि द्रव्यादिष्वनुगतभावत्वादिसत्त्वाद् भावत्वादिना विभागः समुचितः सत्यनुगतविभाजक - व्यापक धर्मान्तरे तत्परित्यागस्यानुचितत्वादित्याशयेनाह सामान्यत इति । विशेषरूपेणाविवक्षात इत्यर्थः । पदार्थविभाजकावान्तरोपाधिद्वय विशिष्ट इत्यर्थस्तेन पदार्थानामानन्त्येऽपि न क्षतिः । अत्र विधप्रत्ययार्थस्तु उद्देश्यतावच्छेदकसमनियतवस्तुमदन्यसंख्यावत्त्वम् । उद्देश्यतावच्छेदकं च पदार्थत्वम् । समनियतत्वं च व्यापकत्वे सति व्याप्यत्वम् । व्यापकत्वं व्याप्यत्वं च स्वाश्रयाश्रयत्वसम्बन्धेन । वस्तुमदन्यत्वं संख्याविशेषणम् । तादृशी च संख्या मावत्वाभावत्वगता द्वित्वरूपा । वस्तुमत्त्वं च स्ववृत्तित्वस्वान्यस्वसमानाधिकरणवृत्तित्वोभयसम्बन्धेन ग्राह्यम् । भावोऽभावश्चेति । तत्र भावत्वं द्रव्यादिषट्कान्यतमत्वमभावत्वं च द्रव्यादिषट् कान्योन्याभाववत्त्वमखण्डोपाधिर्व्वा ।
ननु कथं भावत्वेन पदार्थ विभागः सङ्गच्छते सर्व्वेषामेव पदार्थानामभावात्मकत्वात् तथाहि यथा द्रव्याभावोऽभावस्तथा द्रव्यमपि द्रव्याभावाभावस्यैव द्रव्यात्मकत्वात् । एवं गुणादावपि । उच्यते । कुत्रचिद्भावत्वस्यासिद्धत्वेऽभावत्वस्याप्यसिद्धिर्भावनिष्ठप्रतियोगिता निरूपकस्यैवाभावत्वनियमात् । तथा चाभावत्वस्योपपत्तये भाव - त्वस्याम्युपगम आवश्यकः । न चाभावत्वस्याखण्डीपाधिरूपत्वान्नानुपपत्तिरिति वाच्यं तथात्वे विनिगमनाविरहाद् भावत्वस्यापि तद्रूपताया अभ्युपगमात् । किञ्च 'घटेन जलमाहर' इत्यादिव्यवहारात् 'घटाभावाभावेन जलमाहर' इत्याद्यव्यवहाराच्च जलाहरणादिहेतुत्वस्याभावत्वासहचरितत्वेनानुभूयमानस्य भावत्वसाधकत्वोपगमात् ।
ननु कणादैश्चतुर्थसूत्र भावस्यानुद्देशात् कथमभावत्वस्य पदार्थविभाजकत्वमिति चेन्नाभावत्वस्य साक्षादनुद्दिष्टत्वेऽपि भावविरोधितयानुभूयमानस्यापलपितुमशक्यत्वात् । तदुक्त' 'अभावश्च वक्तव्यो निःश्रेयसोपयोगित्वाद्भावप्रपञ्चवत् । कारणाभावेन कार्याभावस्य सर्व्वमतसिद्धत्वादुपयोगित्वासिद्ध:' इतिवल्लभाचार्यैः । श्राचार्यैरपि 'अभावस्तु स्वरूपवानपि नोद्दिष्टः प्रतियोगिनिरूपणाधीननिरूपणत्वान्नतु तुच्छस्वात्' इति ।
भावं विभजते षविध इति । तद्विधाः प्रदर्शयति द्रव्यगुणकर्मेत्यादि । तत्र शास्त्रस्य परमप्रयोजनापवर्गभागित्वादितरपदार्थाश्रयत्वाञ्चादौ द्रव्यस्य ततो द्रव्याश्रितत्वाद् द्रव्याभिव्यङ्ग्यत्वाच्च गुणस्य ततो द्रव्यजन्यत्वाद् गुणजन्यत्वाञ्च कर्म्मणस्ततो द्रव्यगुणकर्माश्रितत्वात् सामान्यस्य ततो द्रव्ये सामान्यसमानाधिकरणत्वाद्विशेषस्य ततो विशेष सम्बन्धत्वात् समवायस्योल्लेख इति बोध्यम् ।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127