Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ३७ ] स्ततो द्वित्वत्वे इत्याकारकनिविकल्पकविशेषणज्ञानं ततोद्वित्वविशिष्टद्वित्वप्रत्यक्षमपेक्षावुद्धिनाशश्च ततः पञ्चमक्षणे द्वित्वस्यनाश इतिक्रमः । अत्र चेकोद्वावित्यप्रतीतेरेको न द्वाविति प्रतीतेश्च द्वित्वस्य पर्याप्त्याख्यसम्बन्धेनोभयवृत्तित्वं नतु प्रत्येकवृत्तित्वमित्यवधेयम् । एवं त्रित्वादावपि। अत्र द्वित्वप्रत्यक्षानुरोधेनापेक्षावुद्धः क्षणत्रयावस्थायित्वमभ्युपेयमन्यथा निर्विकल्पकक्षणे तस्याः प्रध्वंसे कारणामावाच्चतुर्थक्षणे द्वित्वनाशावश्यम्भावाद्वित्वप्रत्यक्षानुपपत्तिरविद्यमानस्य प्रत्यक्षासम्भवात् 'सम्बद्ध वर्तमानञ्च गृह्यते चक्षुरादिना' इति लौकिकप्रत्यक्षनियमात् । एतेन योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नगुणनाश्यत्वनियमादपेक्षावुद्धश्च तथात्वात् स्वोत्पत्तितृतीयक्षणे नाशः स्यादित्यवास्तम् । परिमाणस्य कारणगुनोद्भवत्वं प्रतिपादयिष्यन्परिमाणोत्पत्तिप्रक्रियासमिधातं विभजते तच्चतुर्विधमिति । तत्राणुत्वह्रस्वत्वे परमाणुद्वयणुकवृत्ती। परमाणुत्वपरमह्रस्वत्वे तु परमाणुवृत्ती। एवं महत्त्वदीर्घत्वे त्र्यणुकमारम्य महावयविपर्यन्तं वर्तेते । परममहत्त्वपरमदीर्घत्वे तु विमुचतुष्टयवृत्ती। नचामलकादावणुत्वस्येक्षुदण्डादौ ह्रस्वत्वस्य च व्यवहारः कथमुपपद्यत इति वाच्यं आपेक्षिकप्रकर्षामावमूलकस्यापि तादृशव्यवहारस्य भाक्तत्वात् । तत्र परमाणावणुत्वं ह्रस्वत्वञ्चनित्यं द्यणुकनिष्ठन्तु परमाणु निष्ठ कत्वाभ्यां जनितम् । परममहत्त्व परमदीर्घत्वयोन्नित्यत्वेन महत्त्वदीर्घत्वयोरुत्पत्तिप्रक्रियामभिधातुमाह कारणगुणप्रक्रमजन्यमित्यादि । महत्त्वासमवायिकारणमाह स्वावयववहुत्वमिति । स्वाश्रयस्यावयवनिष्ठ बहुत्वमित्यर्थः। तेन महत्त्वस्य गुणत्वात्तदवयवाप्रसिद्धावपि न क्षतिः । स्वं. महत्त्वम् । परमाणुगतद्वित्वेन द्यणुके महत्त्वानुत्पादान्त्रित्वचतुष्ट वादेमहत्त्वतारतभ्यनियामकत्वेऽपिमहत्त्वावच्छिन्नं प्रत्यजनकत्वाञ्चोक्त वहुत्वमिति। तच्च त्रित्वादि संख्याभिन्नं नियतापेक्षावुद्धयमावात् सेनावनादावुत्पद्यत इति श्रीधराचार्याः । एवं सति सेनावनादौ शतसहस्रादिकोटिकसंशयानुपपत्तिरित्याचार्यः। वस्तुतस्तु त्रित्वादिजनकापेक्षावुद्धिजन्यं त्रित्वादिसमानाधिकरणं संख्यान्तरमेवबहुत्वं वाच्यमन्यथाऽत्र वहवो घटाः सन्ति शतं सहस्र वेति विशिष्य न जानीम इत्यादिव्यवहारानुपपत्तेः । संशयानुपपत्तिस्त्वसत्कोटिकसंशयोपगमात् परिहरणीयेति नव्याः । महत्त्वजनकमिति महत्त्वत्वावच्छिन्नासमवायिकारणमित्यर्थः । इदमुपलक्षणं दीर्घत्वासमवायित्वमपिबोध्यम् । स्वाश्रयावयवगतवहुत्वस्य महत्त्वजनकत्वे दृष्टान्तमाह यथा त्रसरेणनामिति । तथाच त्रिभिद्वर्यणुकैस्त्रसरेणूत्पादावयणुकगतवहुत्वसंख्या त्रसरेणुनिष्ठमहत्त्वजनिकेत्यर्थः । अत्र द्वयणुकनिष्ठवहुत्वं प्रतीश्वरीयापेक्षावुद्ध न्निमित्तत्वं परमाणु गतैकत्वानामसमवायित्वञ्चेत्यवधेयम् । न च त्रसरेणुपरिमाणं प्रति द्वयणुकपरिमाणस्य कुतो नासमवायित्वमिति वाच्यं परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्व For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127