Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ८३ ] वस्तुतस्तु निरवयवत्वस्य गुणादौ द्रव्यत्वव्यभिचारित्वात् पर्वतादीनि द्रव्याणि वधूिभोभयवत्त्वादित्यादिकमसङ्कीर्णभागासिद्धय दाहरणं बोध्यम् ।
व्याप्यत्वासिद्ध निरूपयति सोपाधिरिति । इदमुपलक्षणं व्यर्थ्य विशेषणकसाधनतावच्छेदिकायाः साध्यासिद्धः साधनासिद्धश्च व्याप्यत्वासिद्धावेवान्तर्भावी बोध्योऽन्यथा पञ्चधाविभागानुपपत्तिरितिध्येयम् । अत्र सोपाधित्वं स्वव्यभिचारित्वसम्बन्धेनोपाधिविशिष्टत्वम् । अयञ्च व्यभिचारज्ञानद्वारा व्याप्तिज्ञानविरोधित्वाद्दूषकः। व्याप्यत्वासिद्धसुदाहरति यथा धूमवानिति । न चैवं साधारणसङ्कराद्विभागानुपपत्तिरिति वाच्यमुपधेयसङ्करेऽप्युपाध्यसङ्करात् । वस्तुतस्तु आश्रयासिद्धयादिभिन्नत्वे सति असिद्धिाप्यत्वासिद्धिः । यत्राश्रासिद्धयाद्यप्रसिद्धिस्तत्र भिन्नान्तमनुपादेयमेव लक्ष्यभेदेन लक्षणभेदस्यादोषत्वात् । तत्रासिद्धित्वनाम साधारण्यादिभिन्नत्वे सति विषयविधया परामर्शविरोधितावच्छेदकत्वम् । __ अन्तिमं बाधितं निरूपयितुमाह बाधितो यथेति । बाधस्तु साध्याभाववत्पक्षादिः । अस्य च साक्षादनुमितिप्रतिबन्धकत्वाद्दूषकत्वम् । अत्रच सामानाधिकरण्येण विशिष्टबुद्धाववच्छेदावच्छेदेन बाधनिश्चयस्थावच्छेदावच्छेदेन विशिष्टबुद्धौ च सामानाधिकरण्येणावच्छेदावच्छेदेन चोभयथाबाधनिश्चयस्य विरोधित्वं बोध्यम् । अयञ्चनित्यदोषः । उदाहरति ह्रद इत्यादि। असङ्कीर्ण बाधोदाहरणन्तु शिखरावच्छिन्नः पर्वतो वह्निमान् धूमादित्यादिकं बोध्यमिति संक्षेपः। न तावन्मुख्यप्रयोजनतया दुष्टहेतुनिरूपणं कृतं किन्तु सद्ध तुनिरूपणोपयोगितयैवेति प्रतिपादयितुमाह तेनत्यादि। तेनउक्तहेतूनां दुष्टत्वेन, एतद्दोषरहित इति। अत्र समुदायाभावोन विवक्षितः, तेनैकमात्रदोषेणापिदुष्टत्वमुपपद्यत इतिज्ञापनार्थमेतत्पदमिति ध्येयम् ।। ५१ ॥ || * || इत्युपमाननिरूपणविवृतिः ॥ * ॥
॥ तर्कामृतम् ॥ उपमितिकरणमुपमानम् । कोदृशो गवय इतिप्रश्ने ‘गोसदृशो गवयः' इत्युत्तरिते यदा गोसदृशं प्राणिनं पश्यति तदा पूर्वोक्तं वाक्यार्थं स्मरति, अनन्तरं 'अयं गवयपदवाच्यः' इति शक्तिग्रहः, सेयमुपमितिः ॥ ४२ ॥
|| * || इत्युपमानं व्याख्यातम् || * ||
विवृतिः ॥ अथावसरसङ्गत्योपमानं निरुपयत्युपमितिकरणमिति । उपमितित्वावच्छिन्नकार्यतानिरूपितकरणतावदित्यर्थः। तेन विशिष्टबुद्धित्वावच्छिन्नकार्य्यताया उपमितौ
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127