Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १०२ ] चौदनं पक्रवा द्विदलपाकानन्तरं व्यञ्जनं पचति तत्रौदनं द्विदलं व्यञ्जनम्वा पापच्यत इति तु न प्रयोगो व्युत्पत्तिवैचित्र्याद् यङन्तधातूपस्थाप्या तत्तदोदनादिकर्मकत्वाद्यन्वयनियमात्। अतएव यत्र तुषेण पत्तवा कारोषेण पाकोत्तरं काष्ठे न पचति तत्र तुषेण कारोषेण काष्ठे ण वा पापच्यते इत्यपि न प्रयोग इत्यादिकं बहुतरमूहनीयम् ।। ६३ ॥ || तर्कामतम् ॥ पूर्वकालीनत्वं कर्ता च क्त्वार्थः। पूर्वत्वञ्च सन्निहितक्रियापेक्षया बोध्यम् । तत् पूर्वकालीनत्वं तत्प्रागभावकालवृत्तित्वं तदुत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्वम्वा । तेन "भुक्त्वा व्रजति" इत्यत्र गमनप्रागभावावच्छिन्नकालवृत्तिभोजनकत्तभिन्नो ब्रजतीत्यर्थः। समानविभक्तिकृतामभेदेन धम्मिवाचकत्वात् । अव्ययत्वेन क्वापरविभक्तिलोपात् । कालस्तात्पर्यवशायवहिताव्यवहितसाधारणो बोद्धव्यः । तेन “पूर्वस्मिन्नब्दे समागतः" इत्येतादृशप्रयोगसङ्गतिः॥ ६४ ॥ ॥ विवृतिः ॥ अथ कृत्प्रत्ययानामान्निरूपयितु प्रथमतो बहुलप्रयुक्तत्वात् क्त्वाप्रत्ययस्यार्थ निरूपयति पूर्वकालोनत्वमिति । तेन यत्र स्वकीयभोजनात् प्राग्गमनं वृत्तं तत्र "भुक्ता गच्छति" इति न प्रयोगः। तच्च क्त्वाप्रकृतिभूतधात्वर्थोऽन्वेति। असमानकत्त कक्रियायां सन्निदितक्रियापूर्वकालीनत्वसत्त्वेऽपि तत्र क्त्वा प्रत्ययो नेष्टः "समानकर्तृकयोः पूर्वकाले" इत्यनुशासनादत आह कर्ता चेति। क्त्वा प्रकृतिभूतधात्वर्थकर्तेत्यर्थः। तस्य चाभेदेन सन्निहितक्रियाश्रये चैत्रादावन्वयो बोध्यव्यः । यत्र गमनोत्तरभोजने शयनाद्यसन्निहितक्रियापूर्वकालीनत्वमस्ति तत्र 'भुक्त्वा गच्छति' इति प्रयोगवारणार्थ माह सन्निहितक्रियेति । क्त्वान्तसमभिव्याहृतधातूपस्थाप्येत्यर्थः। अत्र सन्निहितक्रियायां क्त्वाप्रकृतिभूतधातूपस्थाप्यकियाव्यवहितो. त्तरत्वमपि निवेश्यं तेन यत्र पचनान्तरं गमनशयनादिकं कृत्वाऽनाति तत्र पचनक्रियायां सन्निहिताशनक्रियापूर्वत्वसत्त्वेऽपि "पक्त वाऽश्नाति" इति न प्रयोगः। पूर्वकालीनत्वपदार्थ विवृणोति तत्पूर्वकालीनत्वमिति । तत् प्रागभावकालेति । तत् प्रागभावावच्छिन्नकालेत्यर्थः। तत् प्रागभावस्य क्रियान्तरव्यवहितानि पूर्वकालेऽपि सत्त्वात् क्त्वाप्रत्ययप्रसङ्गात् कल्पान्तरमाह तदुत्पत्तोत्यादि। सन्निहित्तक्रियाया उत्पत्तिकालावच्छेदेन वर्तमानो यो ध्वंसस्तत्प्रतियोगि कालवृत्तित्वमित्यर्थं । न चैवं यत्र पचनानन्तरं क्रियान्तराणि कृत्वा गच्छति तत्र 'पक्त्वा गच्छति' इति प्रयोगः For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127