Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ११२ ] वाक्यं साकाक्षंञ्चेद्विभागे स्यात्" इत्यनेन जैमिनिना सम्भवत्येकवाक्यत्वे वाक्यभेद कल्पनाया अनादेयत्वस्याभिहितत्वात् । अत्र च दर्शितवाक्यै रेकवाक्यत्वस्य सम्भवेनोक्ताभावानां विधेयत्वासम्भवात् । अन्यथा वाक्यभेदाद् गौरवापत्तेः ॥ ६६ ॥ ॥ तर्कामृतम् ॥ क्रियासङ्गतस्य एवकारस्यात्यन्तायोगव्यवच्छेदोऽर्थः । यथा " नीलं सरोजं भवत्येव" । विशेषणसङ्गतस्यायोगव्यवच्छेदः । यथा "शङ्खः पाण्डुर एव" । विशेष्यसङ्गतस्यान्ययोगव्यवच्छेदः । यथा "पार्थ एव धनुर्द्धरः" इत्यादौ । एवं दिशा सर्व्वत्र बोध्यम् ॥ ६९ ॥ ॥ * ॥ इति श्रीमन्महामहोपाध्याय जगदीश तर्कालङ्कार विरचितं तर्कामृतं समाप्तम् ॥ * || ॥ विवृतिः ॥ नत्र निपातस्यार्थ निरूप्य एवकाररूपनिपातान्तरस्य त्रिविधस्यार्थं क्रमेण निरूपयितुमाह क्रिया सङ्गतस्येत्यादि । क्रियासङ्गतस्येत्यस्य क्रियावोधकशब्द समभिव्याहृस्येत्यर्थः । तेन " रूपवान् घटो मवत्येव" "सविषयकं ज्ञानं भवत्येव” इत्यादौ तिङन्ता व्यवहितोत्तरबत्तिनोऽप्येवकारस्य तिङन्त समभिव्याहृतत्वाभावान्नान्तायोग व्यवच्छेदार्थकत्वम् ; नचोक्तस्थलद्वये एवकारस्य तिङन्तेन सहान्वयमुपगम्यात्यन्तायोग व्यवच्छेऽार्थकत्वं कुतो नोपेयत इति वाच्यं एवकारस्य क्रियार्थकशब्दसमभिव्याहारं प्रति विशेष्ये विशेषणायोग प्रसिद्ध रेव नियामकत्वोपगमात् । एवञ्चात्र रूपाभावे घटवृत्तित्वस्य सविषयकत्वाभावे ज्ञानवृत्तित्वस्य चाप्रसिद्धत्वादेवकारस्य न क्रियार्थकशब्दसमभिव्याहृतत्वमतएव च नात्यन्तायोगव्यवच्छेदार्थकत्वमपि, किन्तु विशेष्ये विशेषणायोगाप्रसिद्ध रेव विशेषणार्थक पद समभिव्याहारं प्रतिनियामकतया रूपाभावस्य घटे, सविषयकत्वाभावस्य च ज्ञानेऽप्रसिद्धत्वेनायोग व्यवच्छेदार्थकपदसमभिव्याहृतत्वमपि । अत्यन्तायोगव्यवच्छेद इति । विशेषण सङ्गतैवकारस्थलेऽति व्याप्तिवारणार्थमत्यन्तत्वमयोगपदार्थेऽभावे विशेषणम् । तदर्थश्च विशेष्यतावच्छेदक धम्मविच्छेद्यत्वम् । एवञ्च विशेष्ये विशेषणस्य योऽत्यन्तमयोगः - विशेष्यतावच्छेदकधर्म्मावच्छेदेन विशेषणाभावः, तदव्यवच्छेदः - तदभाव इत्यर्थः । " नीलं जलम्" इत्यादौ विशेषणभावे विशेष्यतावच्छेदकधर्माविच्छेद्यत्वमस्तीत्यन्तायोगः । अत्रतु नीलाभावस्थ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127