Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १११ ] कलञ्जभक्षणं' वलवदनिष्टाजनकत्वाभाववदित्येवान्वयबोधो विधिना वलवदनिष्टाजनक ताया नना चात्यन्ता भाव स्पोपस्थापनात्। न च धात्वर्थान्वितविध्यर्थाबोधात् प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तिभङ्गप्रसङ्ग इति शङ्कयं विधिप्रत्यय. समभिव्याहुते तअपदे ताहशव्युत्पत्तिवैचित्र्योपगमात् । इत्थञ्च 'तृप्तिकागो जलं न ताड़येत्' इत्यादाविष्टसाधनत्वाद्यभावान्वयबोधोऽनुभवसिद्ध उपपद्यते । तथाच 'घटो न पटः' इत्याद्यनुरोधेनान्योन्याभावत्वे नत्रपदप्रवृत्तिनिमित्तत्वस्यावश्यमम्युपेयत्वात्तत एव 'अवट भूतलम्' इत्यादावप्युपपत्तेस्तत्र लक्षणाश्रयणमप्रयोजनकमित्यवधेयम् || ___ यत्त "अनिक्षुः शटः" इत्यादौ सादृश्यस्य "अघटः पटः" इत्यादावन्यत्वस्य "अनुदराकन्या" इत्यादी स्वल्पतायाः "अब्राह्मणो वार्द्धषिकः" इत्यादावप्राशस्त्यस्य "असुरोदैत्यः" इत्यादी विरोधिनो नत्रावोधनात् सादृश्यादीनामपि नञ् पदवाच्यत्वं सिध्यति। तदुक्तं "तत् सादृश्यभभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नत्रर्थाः षट् प्रकोत्तिताः" इति वैयाकरणमतं तन्न साधीय स्तत्तदर्थस्य शक्यत्वे गुरतरबहुतर शक्यतावच्छेदककल्पनगौरवप्रसङ्गात्। नत्रो लक्षणयैव तत्तत्प्रयोगस्योपपादनीयत्वात् ।
स च नत्र प्रसज्य प्रतिषेधतया पर्युदासतया च परिभाष्यते। यथा "अभुक्ता भवता नाथ ! मुहर्तमपि सा पुरा" इत्यादौ स्वार्थस्य निषेधस्य विधेयत्वान्ननः प्रसज्यपतिषेधार्थत्वम् । तदुक्तं "अप्राधान्यं विधेर्यत्र निषेधे च प्रधानता। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नत्र " इति । "जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः "इत्यादौ च स्वार्थस्थ निषेधस्य विधेयतयानवगमादत्रस्तत्वादिकमनूद्यात्मगोपनाद्येव विधेयमतो नञः पर्युदासता। तदुक्तं-"प्राधान्यञ्चविधेर्यत्र चाप्रधानता। पर्युदासः सविज्ञ यो यत्रोत्तरपदेन नत्र " इति। एवञ्च "ज्वरितो नान्नमश्नीयात्" "अष्टम्यां मांसं नाश्नीयात्" "पर्वणि दारान्न गच्छेत्" इत्यादौ नमः प्रसज्यप्रतिषेधार्थत्वमन्नाशनाभावादेरेव विधेयतया प्राधान्यात्। “रात्रौ श्राद्धन कुर्वीत" "नोद्वहेद्रोगिनी कन्याम्" "नोपेयादनृतौ भार्याम्" इत्यादौ च नत्रः पर्य्यदासत्वं, प्रथमे "अमायां पितृभ्यो दद्यात्" इत्यनेन, द्वितीये "अरोगिनी भ्रातमतीमुद्वहेदविशङ्कितः "इत्यनेन, तृतीये "ऋतुकालाभिगामी स्यात्" इत्यनेन च वाक्येनैकवाक्यतया रात्रीतरामावस्याधिकरणकश्राद्धकरणस्य, रोगिनीतरभातृमतीविवाहस्य, अनृत्ववच्छेदकेतरकालाधिकरणकभार्यागमनस्य विधेयत्वेन प्राधान्यात्। तचोक्त प्रयोगेषु रात्रधिकरणकश्राद्धाभाव-रोगिणीकन्योद्वाहाभाव-ऋत्वनवच्छेदककालावच्छिन्न भार्यागमनाभावानामेव विधेयत्वमतएव प्रधान्यञ्चास्त्विति वाच्यं "अर्थोक्यादेकं
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127