Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
... | उपसंहारः॥
गभोरज्ञानसम्पत्त्या जगदीशायते इति । यस्यास्ति महती व्याप्तिर्जागदीश्यादितः क्षितौ ॥ १ ॥ जगदीशस्य तस्यातिदुस्तरवचनाम्बुधिम् । अल्पज्ञानोडुपैस्ततु साहसे मे प्रभुविभुः ॥ २ ॥ भूमात्प्रमादतो वात्र दुरुक्तं स्लिखितञ्च मे । शोधयन्तु वुधा मान्याः कृपया पूरयन्तु च ॥ ३ ॥ श्रीलशिरोमणिः पूज्यो रघुनाथशिरोमणिः । यत्र समुदितश्चित्रामणिदीधितियोगतः ॥ ४ ॥ कुतर्क ध्वान्तमुन्मथ्य तर्कतत्त्वमदीपयत् ।। 'श्रीहट्ट' तत्र विख्याते विद्वन्मण्डलमण्डिते ॥ ५ ॥ अस्ति 'हिङ्गाजिया' ग्रामः प्रसिद्धस्तत्रजन्मभाक् । विप्रः श्रीजीवनकृष्णतर्कतीर्थो विदाम्वरः ॥ ६॥ ढाकायां विश्वविज्ञाते विश्वविद्यालये शुभे । सारस्वतसमाजाख्ये प्रायेणार्द्ध शताब्दकम् ॥ ७ ॥ न्यायाद्यखिलशास्त्राणामध्यापनेषु तत्परः । अध्याप्यशतश श्छात्रान् भूयसीं ख्यातिमाप्नुवन् ॥ ८॥ सारस्वतसमाजस्य सभापतिपदं परम् । अतिमानमलङ्क,त्य न्यायाचार्यः सतां मुदे । ६ ॥ निर्माय मौलिक ग्रन्थं 'न्यायप्रकाशिका' भिधम् । गूढार्थया 'विबृत्या' तं परिवर्द्ध प्रयत्नवः ॥ १० ॥ तत 'एकादशीश्राद्ध वैष्णवकृत्यनिर्णयम्' । निवन्धं 'नवरत्न':च कृतवान्नवतत्त्वकम् ॥ ११ ॥ ततः कृतानेन सदर्थपुष्टा स्वध्यात्म शास्त्रार्णववोधदण्डप्रमन्थनोद्भूतपरेशतत्त्वेन्द्र श्वावलीवामतिदुस्तमोहा ॥ १२ ॥ तीर्थ तीर्थीकृतां भागवतानां चित्तकैरवम् । सद्यः प्रह्लादयेद् या हि 'भगवन्नामकौमुदी' ॥ १३ ॥
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127