Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 122
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ११३ ] सरोजत्वावच्छेदेनासत्वात् तन्नास्तीत्यन्तायोगव्यवच्छेदः। तथाच विशेषणे विशेष्यतावच्छेदकव्यापकीभूताभावाप्रतियोगित्वमत्यन्तायोगव्यवच्छेद इति फलितार्थः। केचित्त्वत्यन्तत्वमयोगव्यवच्छेदस्य विशेषणमित्याहुः। तन्मन्दम् । अयोगव्यवच्छेदस्यायोगप्रतियोगिपर्यवसन्नस्यात्यन्तत्वविशेषणवैयत्तिदत्यन्तत्वस्य दुनिवचत्वाच्च । उदाहरति यथा-नीलमिति । तथाच सरोजत्वव्यापकीभूताभावा. प्रतियोगिनीलत्ववत् सरोजमिति तत्रान्वयबोधः।। विशेषणसङ्गतस्येति । विशेषणबोधकपदसमभिव्याहृतस्येत्यर्थः । न च विशेषणबोधकपदाव्यवहितोत्तरवत्तित्वमेव विशेषणसङ्गतत्वमस्त्विति वाच्यं तदभावेऽप्युक्तस्थलद्वयेऽयोगव्यवच्छेदस्य बोधात् । वस्तुतस्तु कारकार्यान्वितधात्वर्थसमभिव्यारूतेनैवकारेण "ज्ञानमर्थं गृह्णात्येव" इत्यत्र ज्ञानेऽर्थविषयकत्वायोगव्यवच्छेदस्य "द्विजो वेदमधीत एव" इत्यत्र च द्विजे वेदाध्ययनायोगव्यवच्छेदस्य च बोधनात् विशेषणनङ्गतस्येतुपलक्षणं बोध्यम् । नचावकारः क्रियासङ्गत एवात्यन्तायोगव्य. वच्छेदं बोधयत्युपलक्षणाश्रयणमप्रयोजनकमिति वाच्यं ज्ञानविशेषणीभूतार्थ विषयकत्वस्याभावे ज्ञानवृत्तितायाः, द्विजविशेषणीभूतवेदाध्ययनस्याभावे द्विजवृत्तितायाश्चाप्रसिद्धत्वेन क्रिया सङ्गतत्वनियामकाभावात्। अयोगव्यवच्छेद इति । विशेषणस्य योऽयोगः-अभावः, तस्य व्यवच्छेदः-अभाव इत्यर्थः। तथाच विशेषणे विशेष्यतावच्छेदकसमानाधिकरणाभावाप्रतियोगित्वमयोगव्यवच्छेद इति भावः। उदाहरणमाह यथा शङ्ख इति । एवञ्च शङ्खत्वसमानाधिकरणाभावा प्रतियोगिपाण्डरत्ववान् शङ्ख इति तत्रान्वयबोधः । विशेष्यसङ्गतस्येति। विशेष्यबोधकं यत्पदं तत् समभिव्याहृतस्येत्यर्थः । एवकारस्येति पूर्वेणान्वयः। अन्ययोगव्यवच्छेद इति । विशेष्यपदार्थादन्यस्मिन् विशेषणपदार्थस्य योग:-सम्बन्धः, तस्य व्यवच्छेदः-अभाव इत्यर्थः। तथाच विशेषणे विशेष्यान्यवृत्त्यभावप्रतियोगित्वमन्ययोगव्यवच्छेद इति भावः। न चात्राप्यत्यन्तायोगव्ययच्छेदोऽयोगव्यवच्छेदो वाऽर्थ आस्तां किमन्ययोगव्यवच्छेदस्य पृथगर्थत्वकल्पनेनेतिवाच्यं क्वचिद्विशेव्ये विशेषणासत्त्वेऽत्यन्तायोगव्यवच्छेदस्य, सव्वं विशेष्ये विशेषणसत्त्वे त्वयोगव्यवच्छेदस्य सम्भवात्। अत्र च विवक्षितस्य विशेष्यभिन्ने विशेषणाभावस्य यो वोधस्तस्य ताभ्यामनिर्वाहात् । अत्रोदाहरणमाह यथा पार्थ एवेति । अजन एवेत्यर्थः । तेन पृथापत्यत्वस्य युधिष्ठिरादौ ‘सत्त्वेऽपि न क्षतिः। धनुर्द्ध र इति । प्रशस्तधनुर्द्धर इत्यर्थः। तेन धनुर्द्ध तिमत्त्वस्य दुर्योधनादौ सत्त्वेऽपि न क्षतिः। तथाच अर्जुनान्यवृत्त्यभावप्रतियोगिप्रशस्त. धनुर्द्धरत्ववानज्र्जुन इति तत्रान्वयवोधः । For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127