Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ११० ]
॥ विवृतिः ॥ ___ संक्षेपतः समासविचारं समाप्य प्रसङ्गतो नबर्थ निरुपयितुमाह एवमिति । नर्थ इति। नत्रो मुख्यार्थ इत्यर्थः। अभाव इति । अत्यन्ताभाव इत्यर्थः। नन्वेवं "अघट भूतलम्' इत्यादावत्यन्ताभावाप्रतीतेरव्याप्तिरित्याशङ्कां परिजिहीर्षुराह अघटमित्यादि। अत्राकारान्ताव्ययीभावसमासतयामन्तता बोध्या । इत्यादावित्यादिना 'अपङ्कजं सरः' इत्यादेः परिग्रहः । अव्ययोभावसमासस्याव्ययत्वेऽपि निपातत्वाभावेन भेदान्वयबोधकत्वासम्भवादभेदान्वयोपपत्तये पूर्वपदलक्षणावश्यकीत्याह घटमिन्ने इति । तथाच तत्र घटभिन्नं भूतलमित्यन्वयवोधः सम्पन्न इति भावः। एवञ्च तत्र भेदेऽपि शक्तिकल्पने भेदत्वस्य गुरुतया शक्यतवच्छेदकगौरवापत्तेराह लक्षणेति । नत्र पदस्य लक्षणेत्यर्थः। तथाच घटपदस्य तात्पर्यग्राहकत्वमात्रमिति भावः । न च तत्र घटपदस्य घटभिन्ने लक्षणा नअस्तात्पर्य ग्राहकत्वं कुतो न स्यादिति वाच्यं तथाविधलक्षणाया अनुभ्यपगमात् । इत्थञ्च 'भूतले घटो नास्ति' इत्यादावेव नबो मुख्यार्थतेति तात्पर्यम् ।
अथ विधिप्रत्ययसमभिव्याहृतननः प्रयोगे समाधानप्रकारमाह न कलञ्जमित्यादि । इत्यादावित्यादिना 'परदारान्न गच्छेत्' इत्यादेरुपग्रहः। लक्षणेति । नत्र पदस्य लक्षणेत्यर्थः। एवञ्च तत्र कलञ्जभक्षणमनिष्टजनकमित्यन्वयबोध इति भावः। 'नच तत्र नजात्यन्ताभावस्य विधिलिङा च वलवदनिष्टाननुवन्धीष्टसाधनताया बोधनात् कलञ्जभक्षणं वलवदनिष्टाननुबन्धीष्टसाधनत्वाभाववदित्यन्वयबोध: स्यात् कि लक्षणयेति वाच्यं प्रत्ययानां प्रकृत्यान्वितस्वार्थवोधकत्व व्युत्पत्तिभङ्गप्रसङ्गाद्विध्यर्थे धात्वर्थस्यानन्वयात् । अतएव तत्र विनैव लक्षणां कलञ्जभक्षणाभावोवलवदनिष्टाननुवन्धीष्टसाधनमित्यपि नान्वययबोधो विधिप्रत्ययसमभिव्याहृत नन प्रयोगे नअर्थमुख्यविशेष्यकान्वयबोधस्यव्युत्पन्नत्वाच्च । एवञ्च तत्र विधिलिङस्तात्पर्य ग्राहकत्वमात्रमिति बोध्यम् ।
एतच्च नमोऽत्यन्ताभावमुख्यार्थकत्वं मणिकृतां मतेनैव समर्थनीयम् । तैरेव 'न पचति' 'भूतले न घटः' इत्यादौ नो मुख्यार्थत्वमित्युक्तत्वात्। वस्तुतस्तु संसर्गाभावोऽन्योन्याभवश्च नत्र पदशक्यः । शक्यतावच्छेदकञ्च लाघवादखण्डोपाधिरूपमभावत्वमन्योन्याभावत्वञ्च। तत्राभावत्वं ध्वंसादित्रितयसाधारणम् । 'भूतले न घटः' इत्यत्रात्यन्तामावस्य, 'श्यामघटे रक्तं रूपं नास्ति' इत्यत्र रक्तरूपप्रागभावस्य, 'रक्तघटे श्यामरूपं नास्ति' इत्यत्र श्यामरूप ध्वंसस्य, 'घटो न पट:' इत्यत्रान्योन्याभावस्य नना प्रत्यायनात् । एवं 'न कलज भक्षयेत्' इत्यत्रापि
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127