Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १०८ ] विधयान्वयसम्भवात् पर्यायता सम्भवतीति भावः। किन्तूक्तकर्मधारयतद्वाक्ययो र्यथाऽपर्यायता तथात्राप्यव्यता स्यात् किं लक्षणाश्रयेणेत्याह लक्षणा न घटत इति । तथाच विग्रहवाक्यानां समासपर्यायत्वरक्षणार्थमेव समासे लक्षणा स्वीक्रियत इति सिद्धान्तव्याकोप इति भावः। कुत इत्याकाङ्खायामाह सम्बन्धस्य संसर्गमर्यादा लभ्यत्वादिति । सम्बन्धस्याकाङक्षाभास्यत्वादित्यर्थः। संसर्गमर्यादया भासमानस्य प्रकारविधयान्वया योग्यत्वादिति भावः। नन्वेवं "राजपुरुषः" इति तत्पुरुषे राजपदलक्षितार्थस्य पुरषपदार्थे तादात्म्याति. रिक्त सम्बन्धे नान्वयात् “नामार्थयो भेदेनान्वयोऽव्युत्पन्नः" इति सिद्धान्तविरोध इत्यत आह वस्तुतस्त्विति । विरुद्धविभक्तयनवरुद्धस्येति । धम्मिवाचकपदोत्तरविभक्तिरहितस्येत्यर्थः। पूर्वपदस्येति शेषः। “नीलमुत्पलम्" इत्यादावभेदबोधकत्वहान्यापत्तेविरुद्ध ति विभक्तिविशेषणम् । अभेदाबोधकत्व व्युत्पत्तेरिति । तथाच "राजपुरुषः' इत्यत्र राजपदस्य विरुद्धविभक्त्यनवरुद्धत्वेनाभेदबोधकत्वाद्राजाभेदस्य च पुरुषे बाधाल्लक्षणावश्यमभ्युपेयेति भावः। मुख्यार्थान्वयबाधस्यैव सर्वत्र लक्षणावीजत्वादुक्त मुख्यार्थेति । राजसम्बन्धिनि लक्षणेति । तथाच सम्बन्धिनस्तादात्म्येन धम्मिण्यन्वय सम्भवान्नोक्त सिद्धान्तव्याधात इति भावः ।। नचैवं समासे राजपदस्य राजसम्बन्धिनि लक्षणास्वीकारे समासविग्रहयोः पर्यायत्वहान्यापत्ति क्येि षष्ठ्या सम्बन्धिनोऽनुपस्थापनात् "शेषेषष्ठी" इति सूत्रोण स्वस्वामिभावादिसम्बन्ध एव षष्ठीविधानान्नतु सम्बन्धिनीति वाच्यं विशेषण विभक्तेरभेदार्थकत्वपक्षे कर्मधारये वाक्यसमासयोरपोयत्वस्येव तत्पुरुषेऽपि वाक्यसमासयोरप-यत्वस्येष्टत्वात् । अतएव "राजपदादौ राजसम्बन्धिनि लक्षणा, तस्य च पुरुषेण सहाभेदान्वयः" इति सिद्धान्तमुत्तावलीकृतः। नचैवं “राजपुरुष इत्यादिकस्तु तत्पुरुषो न पूर्वपदलक्षितराजसम्बधिनस्तादात्म्येनान्वयबोधकः समासबिग्रहयोस्तुल्यार्थकत्वहान्यापत्तेः" इति 'शब्दशत्तिप्रकाशिका' सन्दर्भविरोध इति वाच्यं निपातस्थल इव तत्पुरुषेऽपि नामार्थयोर्भेदान्वयमुपगम्यैव तदुक्तत्वात् । अतएव "यथाच नामार्थयी देनान्वयेऽपि न क्षति स्तथोपरिष्टाद्वक्ष्यते” इति तौवोक्तम् । नामार्थयोरभेदान्वयोपपत्तये यथा तत्पुरुषे लक्षणाऽभ्युपेतव्या तथा बहुब्रीहावपोति सूचयितुमुक्तमेवमिति। बहुव्रीही लक्षणया आवश्यकत्वेऽपि "चित्रगुरस्ति" इत्यादौ चित्रग्विति समुदयस्य लक्षणा न सम्भवति वाक्यत्वेन लक्षकत्वायोगात्। नापि केवल चित्रपदस्य, तस्य प्रथमान्तत्वाभावेन तदर्थेऽस्तित्वान्वयायोगात् प्रथमान्तपदोपस्थाप्यस्यैवार्थस्य भावनाविशेष्यत्वनियमादत उक्त चरमपदस्येति । अन्यपदार्थ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127